________________
सवृत्तिके
तृतीयोऽध्यायः
सहिष्णोः उत्तमधर्मप्रतिपत्तिसमर्थस्य प्रयोगे अणुव्रतादिप्रदानव्यापारणे अन्तरायः चारित्रप्रतिपत्तेः कृतो गुरुणा भवति, स च भवान्तरे धर्मबिन्दौ| आत्मनश्चारित्रदुर्लभत्वनिमित्तमिति ।।९।। अत्रैवोपचयमाह
अनुमतिश्चेतरत्र ॥१०॥१४३।। इति । अनुमतिः अनुज्ञादोषः, चकारो दूषणान्तरसमुच्चये, इतरत्र अणुव्रतादिप्रतिपत्तौ प्रत्याख्यातसावद्यांशात् योऽन्य: अप्रत्याख्यात: सावद्यांशः तत्रापद्यते, तथा च गुरोर्यावज्जीवं सर्वथा सावधपरिहारप्रतिज्ञाया मनाग् मालिन्यं स्यादिति तत्कथनपूर्वकमित्युक्तम् ॥१०॥ अथैतद्व्यतिरेके दोषमाह
अकथने उभयाफल आज्ञाभङ्गः ॥११॥१४४।। इति । यदि उत्तमधर्मप्रतिपत्त्यसहिष्णो: अणुव्रतादिलक्षणं धर्म न कथयति गुरुः तदा अकथने उभयं यति-श्राद्धधर्मलक्षणं न फलं यस्यासौ उभयाफल: आज्ञाभङ्गः भगवच्छासनविनाशनमत्यन्तदुरन्तं जायत इति । भगवदाज्ञा चेयम्
श्रममविचिन्त्यात्मगतं तस्माच्छ्रेयः सदोपदेष्टव्यम् । आत्मानं च परं च हि हितोपदेष्टाऽनुगृह्णाति ॥१०६॥ तत्त्वार्थकारिका ३०] इति । ननु सर्वसावद्ययोगप्रत्याख्यानाक्षमस्याणुव्रतादिप्रतिपत्तौ सावद्यांशप्रत्याख्यानप्रदाने कथमितरत्रांशे नानुमतिदोषप्रसङ्गो गुरोः इत्याशङ्क्याह
भगवद्वचनप्रामाण्यादुपस्थितदाने दोषाभावः ॥१२॥१४५।। इति ।। उपासकदशादौ हि भगवता स्वयमेव आनन्दादिश्रमणोपासकानामणुव्रतादिप्रदानमनुष्ठितमिति श्रूयते, न च भगवतोऽपि तत्रानुमतिप्रसङ्ग इति प्रेर्यम्, भगवद्नुष्ठानस्य सर्वाङ्गसुन्दरत्वेनैकान्ततो दोषविकलत्वात् इति भगवतो वचनस्य प्रामाण्यादुपस्थितस्य ग्रहीतुमुद्यतस्य जन्तोरणुव्रतादिप्रदाने साक्षिमात्रभावमवलम्बमानस्य सावद्यांशानिरोधेऽपि नानुमतिप्रसङ्गो गुरोः, प्रागेव तस्य स्वयमेव तत्र प्रवृत्तत्वादिति ॥१२॥ कुत एतदिति चेदुच्यते
- गृहपतिपुत्रमोक्षज्ञातात् ॥१३॥१४६।। इति। गृहपते: वक्ष्यमाणकथानकाभिधास्यमाननामधेयस्य श्रेष्ठिन: राजगृहाद् यः पुत्राणां मोक्षो विमोचनं तदेव ज्ञातं दृष्टान्तः तस्मात्, भावार्थश्च कथानकगम्यः, तच्चेदम् समस्ति सकलसुरसुन्दरीमनोहरविलासोपहासप्रदानप्रवणसीमन्तिनीजन-कटाक्षच्छटाक्षेपोपलक्ष्यमाणनिखिलरामणीयकप्रदेशो देशो १कुत इति J. ॥
an Education Integral
For Private
Personal Use Only
www.jainelibrary.org