________________
५४
तृतीयोऽध्यायः
सवृत्तिके | मगधाभिधान:,तत्र च तुषारगिरिशिखरधवलप्रासादमालाविमलकूटकोटिभिरकालेऽपि शरदभ्रलीलां कुर्वाणमिव बभूव वसन्तपुरं नाम नगरम्,तस्य च धर्मबिन्दौ पालयिता सेवावसरसरभसप्रणतनिखिलभूपालविमलमौलिमुकुटकोटीविलग्नमाणिक्यमयूखव्राताभिरञ्जितक्रमकमलयुगल: चण्डदोर्दण्डव्यापारितमण्डलाग्र
खण्डितारातिमत्तमातङ्गकुम्भस्थलगलितमुक्ताफलप्रकरप्रसारिताशेषसंग्राममहीमण्डल: समजायत जितशत्रुनामा नृपतिः, तस्य च सकलजननयनमनोहारिणी पूर्वभवपरम्परोपार्जितपुण्यप्राग्भारनिर्मापितफलसंबन्धानुकारिणी विबुधवधूविलासावलेपापहारिणी बभूव प्रेयसी धारिणी, तया च सार्द्धमसौ महीपतिः प्रणताशेषक्षितिपति: दूरतो निराकृतनिकृतिर्मनोहरपञ्चप्रकारभोगान् भुञ्जानो महान्तमनेहसमनैषीत् । इतश्च तत्रैव पुरे प्रचुरतर द्विपद-चतुष्पदा-ऽपदहिरण्य-सुवर्ण-धन-धान्य-शङ्क-शिला-मुक्ता-प्रवाल- पद्मराग- वैडूर्य-चन्द्रकान्तेन्द्रनील-महानील-राजपट्टप्रभृतिप्रवरपदार्थ- सार्थपरिपूर्णसमृद्धिसमुपहसितश्रीकण्ठसखदर्पोद्रेको दीना-ऽनाथा-ऽन्ध-पङ्गुप्रमुखप्राणिप्रणाशिताशेष शोक: समजनि समुद्रदत्ताभिधानो निखिलवणिग्वर्गप्रधानो गुणगणगरिष्ठः श्रेष्ठी, तस्य चाश्रय इव लावण्यगुणानाम्, उदाहरणमिव सर्वश्रेयोवस्तूनाम्, महानिधानमिव पुण्यरत्नानाम्, भूषणमिव स्वकुलसन्तते:, पादप इव सौकुमार्यवनलतायाः, समभवत् सुमङ्गलाभिधाना सधर्मचारिणी, तस्यामसौ निबिडबद्धानुरागो जीवलोकोद्भवप्राज्यवैषयिकशर्मसागरोदरमध्यमग्नोऽनल्पं कालमतिवाहयाञ्चकार, प्रस्तावे च समजनिषत तयोर्विशदसमाचारसमाचरणपवित्राः पुत्रा: क्रमेण प्रियङ्कर-क्षेमङ्कर-धनदेव-सोमदेव-पूर्णभद्र-मणिभद्रनामान: षट्, ते च निसर्गत: एव गुरुजनविनयपरायणा: परमकल्याणप्रदानप्रवणपरिशुद्धत्रिवर्गबद्धानुरागा: अनुरागभरसमाकृष्यमाणकीर्तिकामिनीबाढोपगूढा: सकलसज्जनमन:संतोषकातुच्छसमुच्छलद्दया-दाक्षिण्यप्रायप्राज्यगुणालङ्कृतशरीरा: शरीरसौन्दर्योत्कर्षतिरस्कृतमकरकेतनलावण्यदर्पातिरेका: वणिग्जनोचितव्यवहारसारतया पितरमतिदूरमतिक्रान्तकुटुम्बचिन्ताभारमकार्षुः । __अन्यदा च धारिणी देवी अन्त:पुरान्त: नरपतौ पटुपटहप्रवादनप्रवृत्ते अनेककरणभङ्गसंसङ्गसुन्दरं राजहृदयानन्दातिरेकदायकं नृत्यविधिं व्यधात्, तत: संतोषभरतरलितमना: महीपति: प्रियायै वरं प्रायच्छत्, सा चोवाच यथा- देव ! अद्यापि तवान्तिक एव वरस्तिष्ठतु, प्रस्तावे याचिष्ये इति, एवं च गच्छति काले समाययौ अन्यदा कामुकलोकविलासोल्लाससाहाय्यकारी कौमुदीदिवसः, विज्ञप्तश्च देव्या वसुन्धराधिपतिः - देव ! क्रियतां वरेण प्रसादः यथाऽद्य कर्पूरपूरप्रतिभशशधरकरनिकरपरिपूरितनिखिलाशायां निशायामिमां नगरी गरीयसा स्वपरिवारेण शेषान्त:पुरेण च परिकरिता सती त्रिक१. प्रसाधिता' J. विना ।। २. निराकृति' J. ॥३.याचिष्यत इति L ।।
५४
Jain Education International
For Private & Personal use only
www.jainelibrary.org