SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ सवृत्ति धर्मन्दौ ५२ Jain Education International जिनवचनश्रवणं प्रतीतरूपमेव, आदिशब्दात् तथाभव्यत्वपरिपाकापादितजीववीर्यविशेषलक्षणो निसर्गो गृह्यते, ततो जिनवचनश्रवणादेः सकाशात् यः कर्मक्षयोपशमादिः कर्मण: ज्ञानावरण-दर्शनावरण- मिथ्यात्वमोहादेः क्षयोपशमोपशम-क्षयलक्षणो गुणः तस्मात् सम्यग्दर्शनं तत्त्वश्रद्धानलक्षणं विपर्ययव्यावृत्तिकारि असदभिनिवेशशून्यं शुद्धवस्तुप्रज्ञापनानुगतं निवृत्ततीव्रसंक्लेशं उत्कृष्टबन्धाभावकृत् शुभात्मपरिणामरूपं समुज्जृम्भते, कर्मक्षयादिरूपं चेत्थमवसेयम् खीर्णा निव्वाहुयासो व्व छारपिहियव्व उवसंता । दरविज्झायविहाडियजलणोवम्मा खओवसमा ॥ १०५ ॥ [ विघाटित इति इतस्ततो विप्रकीर्ण इति । कीदृशमित्याह ] प्रशम- संवेग - निर्वेदा-नुकम्पा -ऽऽस्तिक्याभिव्यक्तिलक्षणं तत् ||७|| १४०॥ इति। प्रशमः स्वभावत एव क्रोधादिक्रूरकषां यविषविकारकटुफलावलोकनेन वा तन्निरोधः, संवेगो निर्वाणाभिलाषः, निर्वेदो भवादुद्वेजनम्, अनुकम्पा दुःखितसत्त्वविषया कृपा, आस्तिक्यं तदेव सत्यं निःशङ्कं यज्जिनै: प्रवेदितम्' इति प्रतिपत्तिलक्षणम्, ततः प्रशम-संवेगनिर्वेदाऽनुकम्पा ऽऽस्तिक्यानामभिव्यक्तिः उन्मीलनं लक्षणं स्वरूपसत्ताख्यापकं यस्य तत् तथा तदिति सम्यग्दर्शनम् ||७|| एवं सम्यग्दर्शनसिद्धौ यद् गुरुणा विधेयं तदाह उत्तमधर्मप्रतिपत्त्य सहिष्णोस्तत्कथनपूर्वमुपस्थितस्य विधिनाऽणुव्रतादिदानम् ||८|| १४१ ।। इति । इह भव्यस्य भवभीरोर्धर्मग्रहणोद्यममवलम्बमानस्य गुरुणा प्रथमं क्षमा मार्दवादिर्यतिधर्मः सप्रपञ्चमुपवर्ण्य प्रदातुमुपस्थापनीयः, तस्यैव सर्वकर्मरोगविरेचकत्वात् । यदा चासावद्यापि विषयसुखपिपासादिभिरुत्तमस्य क्षमा मार्दवादेर्यतिधर्मस्य प्रतिपत्तिः अभ्युपगमः तस्यामसहिष्णुः अक्षमः तदा तस्य तत्कथनपूर्वं स्वरूप भेदादिभिस्तेषाम् अणुव्रतादीनां कथनं प्रकाशनं पूर्वं प्रथमं यत्र तत् तथा, क्रियाविशेषणमेतत्, उपस्थितस्य ग्रहीतुमभ्युद्यतस्य, किमित्याह - विधिना वक्ष्यमाणेनाणुव्रतादिदानं कर्त्तव्यमिति ॥ ८॥ अन्यथा प्रदाने दोषमाह सहिष्णोः प्रयोगेऽन्तरायः || ९ || १४२ ।। इति । १. शून्य K || २ क्षीणा निर्वातहुताशन इव क्षारपिहिता इवोपशान्ताः । ईषद्विध्यातविघाटितज्वलनौपम्याः क्षयोपशमाः ॥। ३. कषायविकार ]. ॥। ४. " तमेव सच्चं णीसंकं जं जिणेहिं पवेदितं" इति आचारामसूत्रे १/५/५, सू० १६८ ॥ For Private & Personal Use Only तृतीयोऽध्यायः ५२ www.jainelibrary.org
SR No.600011
Book TitleDharmabinduprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorJambuvijay, Dharmachandvijay, Pundrikvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages379
LanguageSanskrit
ClassificationManuscript, Ethics, & Principle
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy