SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ सवृत्तिके धर्मबिन्दौ ५१ Jain Education International धर्मग्रहणम् उक्तलक्षणं हि यस्मात् सत्प्रतिपत्तिमत् दृढशक्तिपर्यालोचादिना शुद्धाभ्युपगमवत् किमित्याह-विमलभावकरणं स्वफलप्रसाधनावन्ध्यपरिणामनिमित्तं संपद्यते इत्येवमस्य ग्रहणविधिर्वक्तुमुपक्रम्यते इति ॥२॥ तदेव कथं संपद्यते इत्याहतच्च प्रायो जिनवचनतो विधिना ||३|| १३६ ।। इति । तच्च तत् पुनः सत्प्रतिपत्तिमद्धर्मग्रहणं प्रायो बाहुल्येन, मरुदेव्यादौ क्वचिदन्यथापि संभवात्, जिनवचनतो वीतरागराद्धान्तात् यो विधि: वक्ष्यमाणः तेन संपद्यते इति ॥ ३ ॥ एवं सति यत् संजायते तदाह इति प्रदानफलवत्ता ||२४||१३७॥ इति । इति एवं सत्प्रतिपत्तिमतो विधिना धर्मग्रहणस्य विमलभावनिबन्धनतायां सत्यां प्रदानस्य वितरणस्य धर्मगोचरस्य गुरुणा क्रियमाणस्य शि फलवत्ता शिष्यानुग्रहरूपफलयुक्तत्वमुपपद्यते, अन्यथोष॑रवसुन्धराबीजवपनमिव निष्फलमेव स्यादिति ॥४॥ प्रागविशेषतो धर्मो ग्राह्यतयोक्तः, तत्र च प्रायोऽभ्यस्तश्रावकधर्मो यतिधर्मयोग्यो भवतीति गृहस्थधर्मग्रहणमेवादौ बिभणिषुरिदमाहसति सम्यग्दर्शने न्याय्यमणुव्रतादीनां ग्रहणम्, नान्यथा ||५|| १३८ ॥ इति । सति विद्यमाने सम्यग्दर्शने सम्यक्त्वलक्षणे न्याय्यम् उपपन्नम् अणुव्रतादीनां अणुव्रत - गुणव्रत- शिक्षाव्रतानां ग्रहणम् अभ्युपगमः, न नैव अन्यथा सम्यग्दर्शने असति, निष्फलप्रसङ्गात्, यथोक्तम् सस्यानीवोवरे क्षेत्रे निक्षिप्तानि कदाचन । न व्रतानि प्ररोहन्ति जीवे मिथ्यात्ववासिते ॥ १०३ ॥ संयमा नियमाः सर्वे नाश्यन्तेऽनेन पावनाः। क्षयकालानलेनेव पादपाः फलशालिनः ॥ १०४॥ [ सम्यग्दर्शनमेव यथा स्यात् तथाऽऽह ] इति । जिनवचनश्रवणादेः कर्मक्षयोपशमादितः सम्यग्दर्शनम् ||६|| १३९ ।। इति । १. लोचनादिना L. ॥। २. उखर K. ।। For Private & Personal Use Only तृतीयोऽध्यायः ५१ www.jainelibrary.org
SR No.600011
Book TitleDharmabinduprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorJambuvijay, Dharmachandvijay, Pundrikvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages379
LanguageSanskrit
ClassificationManuscript, Ethics, & Principle
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy