________________
सवृत्तिके
धर्मबिन्दौ
तृतीय
धर्मोपानात्वा अवगम्य संजातेच्छसम्वधर्मस्य संप्रवर्तते सम्यकप्रति इत्यार
अथ तृतीयोऽध्यायः। व्याख्यातो द्वितीयोऽध्यायः, अथ तृतीय आरभ्यते, तस्य चेदमादिसूत्रम्
सद्धर्मश्रवणादेवं नरो विगतकल्मषः । ज्ञाततत्त्वो महासत्त्वः परं संवेगमागतः ॥१३॥ इति । सद्धर्मश्रवणात् पारमार्थिकधर्माकर्णनात् एवम् उक्तनीत्या नरः श्रोता पुमान् विगतकल्मष: व्यावृत्ततत्त्वप्रतिपत्तिबाधकमिथ्यात्वमोहादिमालिन्य: सन्, अत एव ज्ञाततत्त्वः करकमलतलकलितनिस्तलस्थूलामलमुक्ताफलवच्छास्त्रलोचनबलेनालोकितसकलजीवादिवस्तुवादः, तथा महत् शुद्धश्रद्धानोन्मीलनेन प्रशस्यं सत्त्वं पराक्रमो यस्य स तथा, परं प्रकृष्टं संवेगम् उक्तलक्षणमागत: अवतीर्णः सन् किं करोतीत्याह
____धर्मोपादेयतां ज्ञात्वा संजातेच्छोऽत्र भावतः । दृढं स्वशक्तिमालोच्य ग्रहणे संप्रवर्त्तते ॥१४॥ इति ।।
धर्मोपादेयताम् एक एव सुहद्धर्मो मृतमप्यनुयाति यः । शरीरेण समं नाशं सर्वमन्यत् तु गच्छति ॥१०२॥ [ ] इत्यादिवचनात् धर्मोपादेयभावं ज्ञात्वा अवगम्य संजातेच्छ: लब्धचिकीर्षापरिणाम: अत्र धर्मे दृढम् अतिसूक्ष्माभोगेन स्वशक्तिं स्वसामर्थ्यमालोच्य विमृश्य ग्रहणे वक्ष्यमाणयोगवन्दनादिशुद्धिविधिना प्रतिपत्तावस्यैव धर्मस्य संप्रवर्तते सम्यक्प्रवृत्तिमाधत्ते, अदृढालोचने हि अयथाशक्ति धर्मग्रहणप्रवृत्तौ भासंभवेन प्रत्युतानर्थभाव इति दृडग्रहणं कृतमिति । ननु किमर्थमस्यैव धर्मग्रहणसंप्रवृत्तिर्मण्यते इत्याह
योग्यो ह्येवंविधः प्रोक्तो जिनैः परहितोद्यतैः । फलसाधनभावेन नातोऽन्यः परमार्थतः ।।१५।। इति । ___ योग्यो अर्को भव्य इति योऽर्थः हिर्यस्माद् एवंविधः 'सद्धर्मश्रवणात्' इत्यादिग्रन्थोक्तविशेषणयुक्तः पुमान् धर्मप्रतिपत्तेः प्रोक्तः, कैरित्याहजिनैः अर्हतिः परहितोद्यतैः सकलजीवलोककुशलाधानधनैः, केन कारणेनेत्याह फलसाधनभावेन योग्यस्यैव धर्मग्रहणफलं प्रति साधकभावोपपत्तेः, व्यतिरेकमाह-न नैव अत: धर्मग्रहीतुः अन्यः पूर्वश्लोकद्वयोक्तविशेषणविकल: परमार्थतः तत्त्ववृत्त्या योग्य इति ।
इति सद्धर्मग्रहणार्ह उक्तः, साम्प्रतं तत्प्रदानविधिमनुवर्णयिष्यामः ॥१॥१३४॥ इति । एतत् सुगममेव ॥१॥ ननु धर्मः स्वचित्तपरिशुद्धयधीनः, तत्किमस्यैवं ग्रहणेनेत्याशङ्क्याह
धर्मग्रहणं हि सत्प्रतिपत्तिमद्विमलभावकरणम् ॥२॥१३५।। इति। १'मस्यैव L.ली.॥
-
www.jainelibrary.org
For Private & Personal Use Only
Jain Education intomational