SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ सवृत्तिके धर्मबिन्दो प्रत्युतानर्थसमन मुनिनेत्यानत्वात्, पुनरावलोध: श्रोतुरून !! आह-धर्माल्यावहानादिनिबन्धनत्वात्, पुरनल्यायमानधर्मप्रतिबद्धवा तथ्ये धर्मे ध्वस्तहिंसाप्रबन्धे देवे राग-द्वेष-मोहादिमुक्ते । साधौ सर्वग्रन्थसंदर्भहीने संवेगोऽसौ निश्चलो योऽनुरार्गः ॥१०॥[ ]इति। | धर्म उक्तलक्षण; आख्येयः प्रज्ञापनीयो मुनिना गीतार्थेन साधुना, अन्यस्य धर्ममुपदेष्टुमनधिकारित्वात्, यथोक्तं निशीथे संसारदुक्खमहणो विबोहओ भवियपुंडरीयाणं । धम्मो जिणपन्नत्तो पकप्पजइणा कहेयव्वो ॥१०१॥ [बृहत्कल्पभाष्ये गा० ११३५] प्रकल्पयतिना इति अधीतनिशीथाध्ययनेनेति । पर: शेषतीर्थान्तरीयधर्मातिशायितया प्रकृष्टः, कथमाख्येय इत्याह- यथावबोधं हीति यथावबोधमेव, अनवबोधे धर्माख्यानस्योन्मार्गदेशनारूपत्वेन प्रत्युतानर्थसंभवात्, पठन्ति च-न ह्यन्धेनान्ध: समाकृष्यमाणः सम्यगध्वानं प्रतिपद्यते [ ] इति द्वितीयोऽध्यायः । कीदृशस्य सत इत्याह - शुश्रूषोः श्रोतुमुपस्थितस्य, कीदृशेन मुनिनेत्याह-भावितेन आख्यायमानधर्मप्रतिबद्धवासनावासितेन, भावाद् भावप्रसूति: [ ] इति वचनात्, भाविताख्यानस्य श्रोतुः तथाविधश्रद्धानादिनिबन्धनत्वात्, पुनरपि कीदृशेनेत्याह-महात्मना, तदनुग्रहैकपरायणतया महान् प्रशस्य आत्मा यस्य स तथा तेनेति ॥१०॥ आह-धर्माख्यानेऽपि यदा तथाविधकर्मदोषान्नावबोधः श्रोतुरुत्पद्यते तदा किंफलं धर्माख्यानमित्याह अबोधेऽपि फलं प्रोक्तं श्रोतृणां मुनिसत्तमैः । कथकस्य विधानेन नियमाच्छुद्धचेतसः ॥११॥ इति । अबोधेऽपि अनवगमेऽपि सम्यग्धर्मस्य फलं क्लिष्टकर्मनिर्जरालक्षणं प्रोक्तम्, केषामनवबोधे इत्याह श्रोतृणां श्रावकाणाम्, कैरुक्तमित्याहमुनिसत्तमैर्भगवद्भिरर्हद्भिः, कथकस्य धर्मदेशकस्य साधोः विधानेन बाल-मध्यमबुद्धि-बुधरूपश्रोतृजना पेक्षालक्षणेन नियमाद् अवश्यंतया, कीदृशस्य कथकस्येत्याह-शुद्धचेतसः परानुग्रहप्रवृत्तिपरिणामस्येति ॥११॥ आह-प्रकारान्तरेणापि देशनाफलस्य संभाव्यमानत्वादलमिहैव यत्नेनेत्याशङ्कयाह ___ नोपकारो जगत्यस्मिंस्तादृशो विद्यते क्वचित् । यादृशी दुःखविच्छेदाद् देहिनां धर्मदेशना ॥१२॥ इति । नैव उपकारः अनुग्रहो जगति भुवने अस्मिन् उपलभ्यमाने तादृशो विद्यते समस्ति क्वचित् काले क्षेत्रे वा यादृशी यादृग्रूपा दुःखविच्छेदात् शारीर-मानसदुःखापनयनात् देहिनां देशनार्हाणां धर्मदेशनेति धर्मदेशनाजनितो मार्गश्रद्धानादिर्गुणः, तस्य नि:शेषक्लेशलेशाकलङ्कमोक्षाक्षेप प्रत्यवन्ध्यकारणत्वादिति ॥१२॥ इति श्रीमुनिचन्द्रसूरिविरचितायां धर्मबिन्दुवृत्तौ देशनाविधिर्नाम द्वितीयोऽध्यायः समाप्तः ॥२॥ १“संविनो भवनिर्वेदादात्मनिःसरणं तु यः । आत्मार्थसम्प्रवृत्तोऽसौ सदा स्यान्मुण्डकेवली ।।२९०।। संविग्नः “तथ्ये धर्मे ध्वस्तहिंसाप्रबन्धे देवे राग-द्वेष-मोहादिमुक्ते । साधौ सर्वग्रन्थसंदर्भहीने संवेगोऽसौ निश्चलो योऽनुरागः ।।१।।"[ ] एवंलक्षणसंवेगभाक् ।" इति योगबिन्दुवृत्ती उद्धृतोऽयं श्लोकः ।। २. पेक्षयालक्ष K. ॥ ३ समाप्त: नास्ति J. || Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600011
Book TitleDharmabinduprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorJambuvijay, Dharmachandvijay, Pundrikvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages379
LanguageSanskrit
ClassificationManuscript, Ethics, & Principle
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy