________________
सवृत्तिके धर्मबिन्दौ
४८
| द्वितीयोऽध्याय:
जं मोणं ति पासहा तं सम्मं ति पासहा । जं सम्मं ति पासहा तं मोणं ति पासह ॥९७।। [आंचा० १।५।३ सू० १६१] त्ति ॥७२।। तथा
भावनातो रागादिक्षयः ॥७३॥१३१॥ इति । भाव्यन्ते मुमुक्षुभिरभ्यस्यन्ते निरन्तरमेता इति भावना:, ताश्चानित्यत्वा-ऽशरणत्वादयो द्वादश, यथोक्तम्भावयितव्यमनित्यत्वमशरणत्वं तथैकतान्यत्वे । अशुचित्वं संसार: कर्माश्रवसंवरविधिश्च ॥९८॥ निर्जरण- लोकविस्तर-धर्मस्वाख्यात-तत्त्वचिन्ताश्च । बोधेः सुदुर्लभत्वं च भावना द्वादश विशुद्धाः ॥९९॥ [प्रशम. १४९-१५०]
ताभ्यो रागादिक्षय: राग-द्वेष-मोहमलप्रलयः संजायते, सम्यक्चिकित्साया इव वात-पित्तादिरोगापगमः प्रचण्डपवनाद्वा यथा मेघमण्डलविघटनम्, रागादिप्रतिपक्षभूतत्वाद् भावनानामिति ॥७३॥ ततोऽपि किमित्याह
तद्भावेऽपवर्गः ॥७४॥१३२॥ इति ।। तस्य रागादिक्षयस्य भावे सकललोकालोकविलोकनशालिनो: केवलज्ञान-दर्शनयोः लब्धौ सत्यां निस्तीर्णभवार्णवस्य सतो जन्तोः अपवर्ग उक्तनिरुक्त उद्भवतीति ।।७४।। किंलक्षण इत्याह
स आत्यन्तिको दुःखविगम इति ॥७५।।१३३॥ इति ।। स: अपवर्गः अत्यन्तं सकलदुःखशक्तिनिर्मूलनेन भवतीति आत्यन्तिको दुःखविगमः सर्वशारीर-मानसाशर्मविरहः सर्वजीवलोकासाधारणानन्दानुभवश्चेति ॥७॥ इत्थं देशनाविधिं प्रपञ्च्योपसंहरनाह
एवं संवेगकृद्धर्म आख्येयो मुनिना परः । यथाबोधं हि शुश्रूषो वितेन महात्मना ॥१०॥ इति । एवम् उक्तन्यायेन संवेगकृत् संवेगकारी देशनाहप्राणिनः, संवेगलक्षणं चेदम् - १. "जं सम्म ति पासहा तं मोणं ति पासहा, जं मोणं ति पासहा तं सम्मं ति पासहा" इति आचारागसूत्रे प्रथमे श्रुतस्कन्धे पञ्चमेऽध्ययने तृतीय उद्देशके पाठः सू० १६१ ॥ "जं सम्म ति पासह इत्यादि, सम्यगिति सम्यग्ज्ञानं सम्यक्त्वं वा तत्सहचरितम्, अनयो: सहभाबादेकग्रहणे द्वितीयग्रहणं न्याय्यम्, यदिदं सम्यग्ज्ञानं सम्यक्त्वं वेत्येतत् पश्यत तद् मुनेर्भावो मौनं संयमानुष्ठानमित्येतत् पश्यत, यच्च मौनमित्येतत् पश्यत तत् सम्यग्ज्ञानं नैश्चयिकसम्यक्त्वं वा पश्यत, ज्ञानस्य विरतिफलत्वात् सम्यक्त्वस्य चाभिव्यक्तिकारणत्वात् सम्यक्त्व-ज्ञान-चरणानामेकताऽध्यवसेयेति भावार्थः" इति शीलाङ्काचार्यविरचितायाम् आचारागसूत्रवृत्तौ ॥
४८
Jain Education International
For Private & Personal use only
www.jainelibrary.org