________________
सवृत्तिके | तेभ्यः, असौ वरबोधिलाभ: प्रादुरस्ति, स्वरूपं च जीवादिपदार्थश्रद्धानमस्य ॥६८॥ अथ फलत एनमेवाहधर्मबिन्दौ
ग्रन्थिभेदे नात्यन्तसंक्लेश: ॥६९॥१२७।। इति । इह ग्रन्थिरिव ग्रन्थि: दृढो राग-द्वेषपरिणाम:, तस्य ग्रन्थे: भेदे अपूर्वकरणवज्रसूच्या भेदे विदारणे सति लब्धशुद्धतत्त्वश्रद्धानसामर्थ्यान्नात्यन्तं न प्रागिवातिनिबिडतया संक्लेशो रागद्वेषपरिणामः प्रवर्तते, न हि लब्धवेधपरिणामो मणिः कथञ्चिन्मलापूरितरन्ध्रोऽपि प्रागवस्थां प्रतिपद्यत इति ॥६९॥ एतदपि कुत इत्याह
न भूयस्तद्वन्धनम् ॥७॥१२८॥ इति । यतो न भूयः पुनरपि तस्य ग्रन्थेबन्धनं निष्पादनं भेदे सति संपद्यते इति, किमुक्तं भवति ? यावती ग्रन्थिभेदकाले सर्वकर्मणामायुर्वर्जानां स्थितिरन्त:सागरोपमकोटीकोटिलक्षणाऽवशिष्यते तावत्प्रमाणामेवासौ समुपलब्धसम्यग्दर्शनो जीवः कथञ्चित् सम्यक्त्वापगमात् तीव्रायामपि तथाविधसंक्लेशप्राप्तौ बध्नाति, न पुनस्तं बन्धेनातिक्रामतीति ॥७०||
| द्वितीयोऽध्याय
तथा
असत्यपाये न दुर्गतिः ॥७१।१२९।। इति । असति अविद्यमाने अपाये विनाशे सम्यग्दर्शनस्य परिशुद्धभव्यत्वपरिपाकसामर्थ्यान्मतिभेदादिकारणानवाप्तौ न नैव दुर्गतिः कुदेवत्व-कुमानुषत्व-तिर्यक्त्व-नारकत्वप्राप्ति: संपद्यते, किन्तु सुदेवत्व-सुमानुषत्वे एव स्याताम्, अन्यत्र पूर्वबद्धायुष्केभ्य इति ॥७१|| तथा
विशुद्धेश्चारित्रम् ॥७२॥१३०।। इति । विशुद्धेः परिशुद्धनिःशङ्किततत्त्वादिदर्शनाचारवारिपूरप्रक्षालितशङ्कादिर्पङ्ककलङ्कतया प्रकर्षप्राप्तिलक्षणायाः सम्यग्दर्शनसत्कायाः सकाशात्, किमित्याह-चारित्रं सर्वसावद्ययोगपरिहार-निरवद्ययोगसमाचाररूपं संपद्यते, शुद्धसम्यक्त्वस्यैव चारित्ररूपत्वात्, तथा चाचारसूत्रम्
१.भेद अपूर्व"K.J.|| २.भेदे L.ली.मध्ये नास्ति ॥ ३.प्रतिपद्यते K.॥ ४ पङ्कतया J. विना ।। ५.प्रतिपद्यते K. ॥
Jain Education International
For Private & Personal use only
www.jainelibrary.org