SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ सवृत्तिके धर्मबिन्दी ४६ इत्थं सर्वथा नित्यमनित्यं च तथा देहाद् भिन्नमभिन्नं चात्मानमङ्गीकृत्य हिंसादीनामसम्भवमापाद्योपसंहरन्नाहअतोऽन्यथैतत्सिद्धिरिति तत्त्ववादः ||६४|| १२२ ।। इति । अतः एकान्तवादाद् अन्यथा नित्यानित्यादिस्वरूपे आत्मनि समभ्युपगम्यमाने एतत्सिद्धिः हिंसादिसिद्धिः, तत्सिद्धौ च तन्निबन्धना बन्धमोक्षसिद्धिः, इति ष तत्त्ववादः प्रतिज्ञायते, योऽतत्त्ववेदिना पुरुषेन वेदितुं न पार्यते इति ||६४|| एवं तत्त्ववादे निरूपिते किं कार्यमित्याहपरिणामपरीक्षा ||६५ ।। १२३ ।। इति । परिणामस्य तत्त्ववादविषयज्ञान- श्रद्धानलक्षणस्य परीक्षा एकान्तवादारुचिसूचनवचनसंभाषणादिनोपायेन निर्णयनं विधेयम् ॥ ६५ ॥ ततोऽपि किं कार्यमित्याह शुद्धे बन्धभेदकथनम् ||६६ ॥ १२४ ॥ इति । शुद्धे परमां शुद्धिमागते परिणामे बन्धभेदकथनम् बन्धभेदस्य मूलप्रकृतिबन्धरूपस्याष्टविधस्य उत्तरप्रकृतिबन्धस्वभावस्य च सप्तनवतिप्रमाणस्य [५+९+२+२८+४२+४+२+५=९७] कथनं प्रज्ञापनं कार्यम्, बन्धशतकादिग्रन्थानुसारेणेति ॥ ६६ ॥ तथावरबोधिलाभप्ररूपणा ।। ६७ ।। १२५ ।। इति । वरस्य तीर्थकरलक्षणफलकारणतया शेषबोधिलाभेभ्योऽतिशायिनो बोधिलाभस्य प्ररूपणा प्रज्ञापना, अथवा वरस्य द्रव्यबोधिलाभव्यतिरेकिणः पारमार्थिकस्य बोधिलाभस्य प्ररूपणा हेतुतः स्वरूपतः फलतश्चेति ||६७॥ तत्र हेतुतस्तावदाहतथाभव्यत्वादितोऽसौ ।। ६८ ।। १२६ ।। इति । भव्यत्वं नाम सिद्धिगमनयोग्यत्वमनादिपारिणामिको भावः आत्मस्वतत्त्वमेव, तथाभव्यत्वं तु भव्यत्वमेव कालादिभेदेनात्मनां बीजसिद्धिभावात् नानारूपतामापन्नम्, आदिशब्दात् काल-नियति-कर्म-पुरुषपरिग्रहः, तत्र कालो विशिष्टपुद्गलपरावर्त्तेत्सर्पिण्यादिः तथाभव्यत्वस्य फलदानाभिमुख्यकारी, वसन्तादिवद् वनस्पतिविशेषस्य, कालसद्भावेऽपि न्यूनाधिकव्यपोहेन नियतकार्यकारिणी नियतिः, अपचीयमानसंक्लेशं नानाशुभाशयसंवेदनहेतुः कुशलानुबन्धि कर्म, समुचितपुण्यसंभारो महाकल्याणाशयः प्रधानपरिज्ञानवान् प्ररूप्यमाणार्थपरिज्ञानकुशलः पुरुषः, ततस्तथाभव्यत्वमादौ येषां ते तथा For Private & Personal Use Only Jain Education International द्वितीयोऽध्यायः ४६ www.jainelibrary.org
SR No.600011
Book TitleDharmabinduprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorJambuvijay, Dharmachandvijay, Pundrikvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages379
LanguageSanskrit
ClassificationManuscript, Ethics, & Principle
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy