________________
सवृत्तिके
धर्मबिन्दौ
प्राक्तनावस्थयोर्वायु-तेजसोस्तत्राभावात् मरणमुपपद्यते इति चेदुच्यते
मरणे परलोकाभावः ॥६०॥११८।। इति । मरणे अभ्युपगम्यमाने परलोकस्याभाव: प्रसज्यते, न हि देहादभिन्न एवात्मन्यभ्युपगम्यमाने कश्चित् परलोकयायी सिद्धयति, देहस्यात्रैव तावत् पातदर्शनात् तद्व्यतिरिक्तस्य चात्मनोऽनभ्युपगमात्, न च वक्तव्यम्-परलोक एव तर्हि नास्ति, तस्य सर्वशिष्टैः प्रमाणोपष्टम्भोपपन्नत्वेनाभीष्टत्वात्, प्रमाणं चेदम्-यो योऽभिलाषः स सोऽभिलाषान्तरपूर्वको दृष्टः, यथा यौवनकालाभिलाषो बालकालीनाभिलाषपूर्वकः, अभिलाषश्च बालस्य तदहर्जातस्य द्वितीयोऽध्यायः प्रसारितलोचनस्य मातुः स्तनौ निभालयत: स्तन्यस्पृहारूपः, यच्च तदभिलाषान्तरं तन्नियमाद्भवान्तरभावीति ॥६०॥ तथा
देहकृतस्यात्मनाऽनुपभोगः ॥६॥११९।। इति । एकान्तभेदे देहात्मनोरभ्युपगते सांख्येन देहेन कृतस्य परेषां ताडन-तर्जन-हिंसनादिना देवतानमन-स्तवनादिना चोपायेनोपात्तस्य शुभाशुभरूपस्य कर्मण: आत्मना अनुपभोगः सुखदु:खानुभवद्वारेणावेदनमापद्यते, न हि कश्चिदन्यकृतं शुभमशुभंवा वेदयितुमर्हति, कृतनाशा-ऽकृताभ्यागमदोषप्रसङ्गादिति ॥६३।। तथा
आत्मकृतस्य देहेन ॥२॥१२०।। इति । यदि च देहान् भिन्न एव आत्मेत्यभ्युपगमः तदा आत्मकृतस्य कुशलादकुशलाद्वाऽनुष्ठानादात्मसमुपार्जितस्य शुभस्याशुभस्य च कर्मण इहामुत्र च देहेन कर्ताऽनुपभोग: अवेदनं प्रसज्यते, अन्यकृतत्वात् ॥६२।। यदि नामैवमापद्यते तथापि को दोष इत्याह
दृष्टेष्टबाधा ॥६३||१२१।। इति । दृष्टस्य सर्वलोकप्रतीतस्य देहकृतस्यात्मना आत्मकृतस्य च देहेन य: सुखदुःखानुभव: तस्य इष्टस्य च शास्त्रसिद्धस्य बाधा अपह्नवः प्राप्नोति, तथाहि-दृश्यत एवात्मा देहकृताच्चौर्य-पारदार्याद्यनार्यकार्याच्चारकादौ चिरं शोक-विषादादीनि दुःखानि समुपलभमानः, शरीरं च तथाविधमन:संक्षोभादापन्नज्वरादिजनितव्यथामनुभवदिति, न च दृष्टेष्टापलापिता युक्ता सताम्, नास्तिकलक्षणत्वात् तस्याः ॥६३॥ १ हिंसादिना K.॥
Jan Education Internal
For Private & Personal Use Only
www.jainelibrary.org