________________
सवृत्तिके
धर्मबिन्दी
द्वितीयोऽध्यायः
अनित्ये चापराहिंसनेन ॥५६ ॥११४॥ इति । अनित्ये च सर्वथा प्रतिक्षणभङ्गुरे पुनरात्मनि अभ्युपगम्यमाने सति अपरेण केनचित् लुब्धकादिना अहिंसनेन अव्यापादनेन कस्यचिच्छूकरादेहिँसाऽसंभवः, प्रतिक्षणभङ्गुरत्वाभ्युपगमे हि सर्वेष्वात्मसु स्वत एव स्वजन्मलाभक्षणानन्तरं सर्वथा निवर्तमानेषु कः कस्य हिंसकः ? को वा कस्य हिंसनीय: ? इति ॥५६॥ तथा
भिन्न एव देहान्न स्पृष्टवेदनम् ॥५७॥११५।। इति । यदि हि भिन्न एव विलक्षण एव सर्वथा देहादात्मा तदा न नैव स्पृष्टस्य योषिच्छरीर-शयना-ऽऽसनादेः कण्टक-ज्वलनज्वालादेश्च इष्टानिष्टरूपस्य स्पर्शनेन्द्रियविषयस्य देहेन स्पृश्यमानस्य वेदनम् अनुभवनं प्राप्नोति भोगिनः पुरुषस्य, न हि देवदत्ते शयनादीनि भोगाङ्गानि स्पृशति सति विष्णुमित्रस्यानुभवप्रतीतिरस्तीति ॥५७॥ तथा
निरर्थकश्शानुग्रहः ॥५८॥११६।। इति । निरर्थकः पुरुषसंतोषलक्षणफलविकलः, च: समुच्चये, अनुग्रहः सूक्-चन्दना-ऽङ्गना-वसनादिभिर्भोगाऊरुपष्टम्भो भवेत् देहस्य, देहादात्मनोऽत्यन्तभिन्नत्वात्, निग्रहस्याप्युपलक्षणमेतत् ॥५८॥ एवं भेदपक्षं निराकृत्याभेदपक्षनिराकरणायाह
अभिन्न एवामरणं वैकल्यायोगात् ॥५९॥११७।। इति । अभिन्न एव देहात् सर्वथा नानात्वमनालम्बमाने आत्मनि सति चैतन्यविशिष्टः कायः पुरुषः [ ] इति मतावलम्बिनां सुरगुरुशिष्याणामभ्युपगमेन, किमित्याह- अमरणं मृत्योरभाव: आपद्यत आत्मनः, कुत इत्याह- वैकल्यस्यायोगाद् अघटनात्, यतो मृतेऽपि देहे न किञ्चित् पृथिव्यादिभूतानां देहारम्भकाणां वैकल्यमुपलभ्यते । वायोस्तत्र वैकल्यमिति चेन्न, वायुमन्तरेण उच्छूनभावायोगात् । तर्हि तेजस: तत्र वैकल्यमस्तीति चेन्न, तेजसो व्यतिरेकेण कुथितभावाप्रतिपत्तेरिति कथं देहाभिन्नात्मवादिनां मरणमुपपन्नं भवेदिति ॥५९॥ १.'भिन्ने' इति सप्तम्यन्तमत्र पदम्, दृश्यतामग्रेतनम् 'अभिन्न एवं' इति सूत्रम् ॥ २. प्रतिषु पाठा:- शयनादेः K.। शयनाशनादे: L.J.| ३.. सति K.नास्ति।। ४. सुरगुरुशिष्या लौकायतिका: चार्वाकाः ॥
४
Jain Education International
For Private & Personal use only
www.jainelibrary.org