SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ वृत्ति धर्मबिन्दौ ४३ Jain Education International वर्त्तमानताकल्पं कृतकत्वम् ||५२ ॥११०॥ इति । यादृशी अतीतकालसमयानां वर्त्तमानता साम्प्रतरूपता तादृशं बन्धस्य कृतकत्वं क्रियमाणत्वम्, क्रियाकाल-निष्ठाकाश्च निश्चयनयाभिप्रायेणाभेदादेवमुपन्यस्तम्, अन्यथा वर्त्तमानताकल्पं क्रियमाणत्वमित्युपन्यसितुं युक्तं स्यात् ॥५२॥ यादृशि चात्मनि प्रागुपन्यस्ता बन्धहेतवः उपपद्यन्ते तमन्वय - व्यतिरेकाभ्यामाह - परिणामिन्यात्मनि हिंसादयः, भिन्नाभिन्ने च देहात् ।। ५३ ।। १११ ।। इति । परिणमनं परिणामः द्रव्यरूपतयाऽवस्थितस्यैव वस्तुनः पर्यायान्तरप्रतिपत्ति:, यथोक्तम् परिणामो ह्यर्थान्तरगमनं न च सर्वथा व्यवस्थानम् । न च सर्वथा विनाशः परिणामस्तद्विदामिष्टः ॥ ९५ ॥ [ 1 परिणामो नित्यमस्यास्तीति परिणामी, तत्र आत्मनि जीवे हिंसादयः प्राग् निरूपिता उपपद्यन्ते, तथा भिन्ने पृथग्रूपे अभिन्ने च तद्विपरीते, चकारो विशेषणसमुच्चये, कस्मादित्याह - देहात् शरीरात् ॥५३॥ अत्रैवार्थे विपक्षे बाधकमाहअन्यथा तदयोगः ||५४ ।। ११२ ।। इति । यदि हि परिणामी आत्मा भिन्नाभिन्नश्च देहान्नेष्यते तदा तेषां हिंसादीनां बन्धहेतुतयोपन्यस्तानामयोगः अघटना || ५४|| कथमित्याहनित्य एवाविकारतोऽसंभवात् ।। ५५ ।। ११३ ॥ इति । नित्य एव अप्रच्युतानुत्पन्नस्थिरैकस्वभावे आत्मनि-न तु पर्यायनयावलम्बनेनानित्यरूपेऽपीत्येवकारार्थः - अभ्युपगम्यमाने द्रव्यास्तिकनयावष्टम्भतः अविकारतः तिलतुषत्रिभागमात्रमपि पूर्वस्वरूपादप्रच्यवमानत्वेन असंभवाद् अघटनात् हिंसायाः, यतो हिंसा विवक्षितपर्यायविनाशादिस्वभावा शास्त्रेषु गीयते, यथोक्तम् ] ॥५५॥ तथा तत्पर्यायविनाशो दुःखोत्पादस्तथा च संक्लेशः । एष वधो जिनभणितो वर्जयितव्यः प्रयत्नेन ॥ ९६ ॥ [ १. " तप्पजायविणासो दुक्खुप्पाओ अ संकिलेसो य। एस वहो जिणभणिओ वज्जेयव्वो पयत्तेणं ।। १९१ ॥ तत्पर्यायविनाशः मनुष्यादिजीवपर्यायविनाशः, दुःखोत्पादश्च व्यापाद्यमानस्य, चित्तसंक्लेशश्च क्लिष्टचित्तोत्पादश्च आत्मनः, एष वधो व्यस्तः समस्तो वा ओघतो जिनभणित: तीर्थकरोक्तो वर्जयितव्यः प्रयत्नेन उपयोगसारेणानुष्ठानेनेति ।" इति सटीकायां श्रावकप्रज्ञप्तौ ॥ For Private & Personal Use Only द्वितीयोऽध्यायः ४३ www.jainelibrary.org
SR No.600011
Book TitleDharmabinduprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorJambuvijay, Dharmachandvijay, Pundrikvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages379
LanguageSanskrit
ClassificationManuscript, Ethics, & Principle
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy