SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ सवृत्तिके धर्मबिन्दौ ४२ वस्तुसद्ग्रहणेन तु सौगतमतस्य, यतस्तत्रापि पठ्यते चित्तमेव हि संसारो रागादिक्लेशवासितम्। तदेव तैर्विनिर्मुक्तं भवान्त इति कथ्यते ॥९३॥ [ शास्त्रवार्त्ता० ४०४ ] रागादिक्लेशवासितमिति रागादिक्लेशैः सर्वथा चित्तादव्यतिरिक्तैर्वासितं संस्कृतम् । एवं हि बध्यमानान्न भिन्नं वस्तुसत्कर्मेत्यभ्युपगतं भवति । तत्र प्रकृतेरेव बन्ध-मोक्षाभ्युपगमे आत्मनः संसारा- ऽपवर्गावस्थयोरभिन्नैकस्वभावत्वेन योगिनां यम-नियमाद्यनुष्ठानं मुक्तिफलतयोक्तं यद् योगशास्त्रेषु तद् व्यर्थमेव स्यात् । बौद्धस्यापि चित्तादव्यतिरिक्तकर्मवादिनोऽवस्तुसत्त्वमेव कर्मणः स्यात्, यतो यद्यतोऽव्यतिरिक्तस्वरूपं तत् तदेव भवति, न च लोके तदेव तेनैव बध्यते इति प्रतीतिरस्ति, बध्यमान- बन्धनयो: पुरुष-निगडादिरूपयोः भिन्नस्वभावयोरेव लोके व्यवह्रियमाणत्वात् । किंच, चित्तमात्रत्वे कर्मणोऽभ्युपगम्यमाने संसारा-ऽपवर्गयोर्भेदो न प्राप्नोति, चित्तमात्रस्योभयत्राप्यविशेषात् ॥४८॥ बन्ध-मोक्षहेतूनेवाहहिंसादयस्तद्योगहेतव:, तदितरे तदितरस्य ॥४९ ।। १०७ ।। इति । हिंसादय इति हिंसानृतादयो जीवपरिणामविशेषाः, किमित्याह - तद्योगहेतवः, तस्य बन्धस्य संसारफलत्वेन परमार्थचिन्तायां पापात्मकस्यैव हेतव: आत्मना सह संबन्धकारणभावमापन्ना वर्तन्ते यदवाचि हिंसानृतादयः पञ्च तत्त्वाश्रद्धानमेव च । क्रोधादयश्च चत्वार इति पापस्य हेतवः ॥ ९४ ॥ [ शास्त्रवार्त्ता. ४] तथा तदितरे तेभ्यो हिंसादिभ्य इतरेऽहिंसादय एव तदितरस्य तस्मात् बन्धादितरो मोक्षः तस्य, अनुरूपकारणप्रभवत्वात् सर्वकार्याणामिति ॥ ४९ ॥ बन्धस्यैव स्वरूपमाह प्रवाहतोऽनादिमान् ||५० ।। १०८ ।। इति । प्रवाहतः परम्परातः अनादिमान् आदिभूतबन्धकालविकलः ||५०|| अत्रैवार्थे उपचयार्थमाहकृतकत्वेऽप्यतीतकालवदुपपत्ति: ॥ ५१ ॥ १०९ ॥ इति । कृतकत्वेऽपि स्वहेतुभिर्निष्पादितत्वेऽपि बन्धस्यातीतकालस्येवोपपत्तिः घटना अनादिमत्त्वस्य वक्तव्या, किमुक्तं भवति ? प्रतिक्षणं क्रियमाणोऽपि बन्धः प्रवाहापेक्षयाऽतीतकालवदनादिमानेव ॥ ५१ ॥ अथ यतोंऽशादनयोर्दृष्टान्त - दाष्टन्तिकभावोऽभूत् तं साक्षादेव दर्शयन्नाह Jain Education International For Private & Personal Use Only प्रथमोऽध्यायः ४२ www.jainelibrary.org
SR No.600011
Book TitleDharmabinduprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorJambuvijay, Dharmachandvijay, Pundrikvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages379
LanguageSanskrit
ClassificationManuscript, Ethics, & Principle
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy