________________
सवृत्तिके धर्मबिन्दौ
४१
Jain Education International
सम्यग्वादो यथावस्थितार्थवादः, साक्षादवीक्षमाणेन हि प्रमात्रा प्रोक्तं जात्यन्धचित्रकरनरालिखितचित्रकर्मवद्यथावस्थितरूपविसंवादेन असमञ्जसमेव शास्त्र स्यादिति कथं तद्भाषितं वस्तु अविपरीतरूपतां प्रतिपत्तुमुत्सहते ? इति ॥४४॥ सम्यग्वादताया एवोपायमाह—
बन्धमोक्षोपपत्तितस्तच्छुद्धिः ।। ४५ ।। १०३।। इति।
बन्धो मिथ्यात्वादिहेतुभ्यो जीवस्य कर्मपुद्गलानां च वह्नयः पिण्डयोरिव क्षीर- नीरयोरिव वा परस्परमविभागपरिणामेनावस्थानम्, मोक्षः पुनः सम्यग्दर्शन-ज्ञान-चारित्रेभ्यः कर्मणामत्यन्तोच्छेदः, ततो बन्धश्च मोक्षश्च बन्धमोक्षौ तयोः उपपत्तिः घटना, तस्याः सकाशात् तच्छुद्धिः वस्तुवादनिर्मलता प्रथमोऽध्यायः चिन्तनीया, इदमुक्तं भवति यस्मिन् सिद्धान्ते बन्धमोक्षयोग्य आत्मा तैस्तैर्विशेषैर्निरूप्यते स सर्ववेदिपुरुषप्रतिपादित इति कोविदैर्निश्चीयते इति ॥४५॥ इयमपि बन्धमोक्षोपपत्तिर्यथा युज्यते तथाऽऽह
इयं बध्यमान- बन्धनभावे ||४६ ||१०४ || इति
इयं बन्धमोक्षोपपत्तिः बध्यमानस्य बन्धनस्य च वक्ष्यमाणस्य भावे सद्भावे सति भवति ॥ ४६ ॥ कुत इत्याह
कल्पनामात्रमन्यथा ॥ ४७|| १०५ || इति ।
यस्मात् कारणादियं कल्पनैव केवला वितथार्थप्रतिभासरूपा, न पुनस्तत्र प्रतिभासमानोऽर्थोपीति कल्पनामात्रम् अन्यथा मुख्यबध्यमान- बन्धनयोरभावे वर्त्तते इति ॥ ४७॥ बध्यमान- बन्धने एव व्याचष्टे
बध्यमान आत्मा, बन्धनं वस्तुसत् कर्म || ४८ || १०६ ।। इति।
तत्र बध्यमानः स्वसामर्थ्यतिरोधानेन पारवश्यमानीयमानः क इत्याह- आत्मा चतुर्दशभूतग्रामभेदभिन्नो जीवः प्रतिपाद्यते, तथा बध्यते मिथ्यात्वादिभिर्हेतुभिरात्मा अनेनेति बन्धनम्, किमित्याह — वस्तुसत् परमार्थतो विद्यमानं कर्म ज्ञानावरणादि अनन्तानन्तपरमाणुप्रचयस्वभावमत एव मूर्त्तप्रकृतीति । अत्राऽऽत्मग्रहणेन सांख्यमतनिरासमाह, यतस्तत्रोच्यते
आत्मा न बध्यते नापि मुच्यते नापि संसरति कश्चित् । संसरति बध्यते मुच्यते च नानाश्रया प्रकृतिः ॥ ॥९२॥ [ सांख्यकारिका ६२]
१ 'तस्मान्न बध्यते इति सांख्यकारिकायां पाठः ॥
For Private & Personal Use Only
४१
www.jainelibrary.org