________________
सवृत्तिके धर्मबिन्दौ
४०
प्रथमोऽध्यायः
तच्छुद्धौ हि तत्साफल्यम् ॥४२॥१९॥ इति । तच्छुद्धौ तापशुद्धौ हि: यस्मात् तत्साफल्यं तयोः कषच्छेदयो: सफलभावः, तथाहि-ध्यानाध्ययनादिकोऽर्थो विधीयमानः प्रागुपात्तकर्मनिर्जरणफल:, हिंसादिकश्च प्रतिषिध्यमानो नवकर्मोपादाननिरोधफल:, बाह्यचेष्टाशुद्धिश्चानयोरेवानाविभूतयो: आविर्भवनेनाविर्भूतयोश्च परिपालनेन फलवती स्यात्, न चापरिणामिन्यात्मन्युक्तलक्षणौ कषच्छेदौ स्वकार्य कर्तुं प्रभविष्णू स्यातामिति तयोः तापशुद्धावेव सफलत्वमुपपद्यते न पुनरन्यथेति ॥४१॥ ननु फलविकलावपि तौ भविष्यत इत्याह
फलवन्तौ च तौ तौ ॥४२॥१००।। इति । उक्तलक्षणभाजौ सन्तौ पुन: तौ कषच्छेदौ तौ वास्तवौ कषच्छेदौ भवतः, स्वसाध्यक्रियाकारिणो हि वस्तुनो वस्तुत्वमुशन्ति सन्तः॥४२॥ विपक्षे बाधामाह
अन्यथा याचितकमण्डनम् ।।४३॥१०१।। इति । अन्यथा फलविकलौ सन्तौ वस्तुपरीक्षाधिकारे समवतारितावपि तौ याचितकमण्डनं वर्तेते इति, परकीयत्वसम्भावनोपहतत्वात् कुत्सितं याचितं याचितकम् , तच्च तन्मण्डनं च कटक-कुण्डलादिराभरणविशेषो याचितकमण्डनम्, द्विविधं ह्यलकारफलम्- निर्वाहे सति परिशुद्धाभिमानिकसुखजनिका स्वशरीरशोभा, कथञ्चिनिर्वहणाभावे च तेनैव निर्वाहः। न च याचितकमण्डने एतद् द्वितयमप्यस्ति परकीयत्वात् तस्य, ततो याचितकमण्डनमिव याचितकमण्डनम्, इदमुक्तं भवति- द्रव्यपर्यायोभयस्वभावे जीवे कषच्छेदौ निरुपचरिततया स्थाप्यमानौ स्वफलं प्रत्यवन्ध्यसामर्थ्यावेव स्याताम्, नित्यायेकान्तवादे तु स्ववादशोभार्थं तद्वादिभिः कल्प्यमानावप्येतौ याचितकमण्डनाकारौ प्रतिभासेते न पुनः स्वकार्यकराविति ॥४३॥ आह–अवगतं यथा कषच्छेदतापशुद्धः श्रुतधर्मो ग्राह्यः, परं किम्प्रणेतृकोऽसौ प्रमाणमिति व्यतिरेकत: साधयन्नाह
नातत्त्ववेदिवादः सम्यग्वादः ॥४४॥१०२।। इति । न नैव अतत्त्ववेदिनः साक्षादेव वस्तुतत्त्वमज्ञातुं शीलस्य पुरुषविशेषस्य अर्वाग्दर्शिन इत्यर्थ: वादः वस्तुप्रणयनम् अतत्त्ववेदिवादः, किमित्याह२.इच्छन्तीत्यर्थः ॥
Jain Education International
For Private & Personal Use Only
www.janelibrary.org