SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ प्रथमोऽध्यायः सवृत्तिके | चातीचारलक्षणापचारविरहितौ उत्तरोत्तरां वृद्धिमनुभवतः, सा यत्र धर्मे चेष्टा सप्रपञ्चा प्रोच्यते स धर्मश्छेदशुद्ध इति ॥३६॥ धर्मबिन्दौ ___ यथा कष-च्छेदशुद्धमपि सुवर्णं तापमसहमानं कालिकोन्मीलनदोषान्न सुवर्णभावमश्नुते, एवं धर्मोऽपि सत्यामपि कष-च्छेदशुद्धौ तापपरीक्षामनिर्वहमाणो न स्वभावमासादयत्यत: तापं प्रज्ञापयन्नाह उभयनिबन्धनभाववादस्तापः ॥३७॥९५।। इति ।। उभयोः कष-च्छेदयोः अनन्तरमेवोक्तरूपयो: निबन्धनं परिणामिरूपं कारणं यो भावो जीवादिलक्षण: तस्य वादः प्ररूपणा, किमित्याह- तापोऽत्र श्रुतधर्मपरीक्षाधिकारे, इदमुक्तं भवति- यत्र शास्त्रे द्रव्यरूपतया अप्रच्युतानुत्पन्नः पर्यायात्मकतया च प्रतिक्षणमपरापरस्वभावास्कन्दनेन अनित्यस्वभावो जीवादिरवस्थाप्यते स्यात् तत्र तापशुद्धिः, यतः परिणामिन्येवात्मादौ तथाविधाशुद्धपर्यायनिरोधेन ध्यानाध्ययनाद्यपरशुद्धपर्यायप्रादुर्भावादुक्तलक्षणः कषो बाह्यचेष्टाशुद्धिलक्षणश्च छेद उपपद्यते, न पुनरन्यथेति ॥३७॥ एतेषां मध्यात् को बलीयान् इतरो वा इति प्रश्ने यत् कर्तव्यं तदाह अमीषामन्तरदर्शनम् ॥३८॥९६।। इति । अमीषां त्रयाणां परीक्षाप्रकाराणां परस्परमन्तरस्य विशेषस्य समर्थासमर्थत्वरूपस्य दर्शनं कार्यमुपदेशकेन ॥३८॥ तदेव दर्शयति कष-च्छेदयोरयलः ॥३९॥९७॥ इति । कष-च्छेदयो: परीक्षाऽक्षमत्वेन आदरणीयतायाम् अयत्न: अतात्पर्य मतिमतामिति ॥३९।। कुत इत्याह तद्भावेऽपि तापाभावेऽभावः ॥४०॥९८।। इति। तयोः कषच्छेदयोः भाव: सत्ता तद्भावः, तस्मिन्, किं पुनरतद्भाव इत्यपिशब्दार्थः, किमित्याह- तापाभावे उक्तलक्षणतापविरहे अभाव: परमार्थतः असत्तैव परीक्षणीयस्य, न हि तापे विघटमानं हेम कष-च्छेदयोः सतोरपि स्वं स्वरूपं प्रतिपत्तुमलम्, जातिसुवर्णत्वात् तस्य ।।४०॥ एतदपि कथमित्याह१.उत्तरोत्तरं L.॥२ परीक्षाक्षमत्वेनादरणीयतायाम् इति प्रतिषु पाठः ।। ३.कूटसुवर्णत्वादित्यर्थः।। Jain Education International For Privale & Personal use only www.jainelibrary.org
SR No.600011
Book TitleDharmabinduprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorJambuvijay, Dharmachandvijay, Pundrikvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages379
LanguageSanskrit
ClassificationManuscript, Ethics, & Principle
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy