SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ सवृत्तिके धर्मबिन्दौ ३८ कार्य:, अन्यत्राप्यवाचि - तं शब्दमात्रेण वदन्ति धर्मं विश्वेऽपि लोका न विचारयन्ते । स शब्दसाम्येऽपि विचित्रभेदैर्विभिद्यते क्षीरमिवर्चनीयः ॥ ८९ ॥ लक्ष्मीं विधातुं सकलां समर्थं सुदुर्लभं विश्वजनीनमेर्नम् । परीक्ष्य गृह्णन्ति विचारदक्षाः सुवर्णवद् वञ्चनभीतचित्ताः ॥९०॥ [ परीक्षोपायमेवाह कषादिप्ररूपणा ||३४|| ९२ ॥ इति । यथा सुवर्णमात्रसाम्येन तथाविधलोकेष्वविचारेणैव शुद्धाशुद्धरूपस्य सुवर्णस्य प्रवृत्तौ कष-च्छेद-तापाः परीक्षणाय विचक्षणैराद्रियन्ते तथाऽत्रापि श्रुतधर्मे परीक्षणीये कषादीनां प्ररूपणेति ॥ ३४ ॥ कषादीनेवाह विधि - प्रतिषेधौ कषः ||३५|| १३|| इति । विधिः अविरुद्धकर्तव्यार्थोपदेशकं वाक्यम्, यथा 'स्वर्ग - केवलार्थिना तपो ध्यानादि कर्तव्यम्, समितिगुप्तिशुद्धा क्रिया' इत्यादि, प्रतिषेधः पुनः न हिंस्यात् सर्वभूतानि नानृतं वदेत्' इत्यादिः, ततो विधिश्च प्रतिषेधश्च विधि- प्रतिषेधौ, किमित्याह- कषः सुवर्णपरीक्षायामिव कषपट्टके रेखा, इदमुक्तं भवति — यत्र धर्मे उक्तलक्षणो विधि: प्रतिषेधश्च पदे पदे सुपुष्कल उपलभ्यते स धर्मः कषशुद्धः, न पुनः ] अन्यधर्मस्थिताः सत्त्वा असुरा इव विष्णुना । उच्छेदनीयास्तेषां हि वधे दोषो न विद्यते ॥ ९१ ॥ [ इत्यादिवाक्यगर्भ इति ||३५|| छेदमाह ] इति ॥३३॥ तत्सम्भव- पालनाचेष्टोक्तिश्छेदः ||३६|| ९४ ॥ इति । तयोः विधि-प्रतिषेधयोः अनाविर्भूतयोः सम्भवः प्रादुर्भावः, प्रादुर्भूतयोश्च पालना च रक्षारूपा, ततः तत्सम्भव- पालनार्थं या चेष्टा भिक्षाटनादिबाह्यक्रियारूपा तस्या उक्ति: छेदः, यथा कषशुद्धावप्यान्तरामशुद्धिमाशङ्कमाना: सौवर्णिकाः सुवर्णगोलिकादेश्छेदमाद्रियन्ते, तथा कषशुद्धावपि धर्मस्य छेदमपेक्षन्ते, स च छेदो विशुद्धबाह्यचेष्टारूप:, विशुद्धा च चेष्टा सा यत्रासन्तावपि विधिप्रतिषेधावबाधितरूपौ स्वात्मानं लभेते, लब्धात्मानौ १. र्चनीयं L.I २. मेतम् J || ३. इत्यादि J.L.I Jain Education International For Private & Personal Use Only प्रथमोऽध्यायः ३८ www.jainelibrary.org
SR No.600011
Book TitleDharmabinduprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorJambuvijay, Dharmachandvijay, Pundrikvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages379
LanguageSanskrit
ClassificationManuscript, Ethics, & Principle
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy