SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ सवृत्तिके धर्मबिन्दौ ३७ Jain Education International दुर्गा तावदियं समुद्रपरिखा तावन्निरालम्बनं व्योमैतन्ननु तावदेव विषमः पातालयात्रागमः । दत्त्वा मूर्द्धनि पादमुद्यमभिदो दैवस्य कीर्तिप्रियैः वीरैर्यावदहो न साहसतुलामारोप्यते जीवितम् ॥८५॥ [ विहाय पौरुषं कर्म यो दैवमनुवर्त्तते । तद्भि शाम्यति तं प्राप्य क्लीबं पतिमिवाना ॥८६॥ [ वीर्यर्द्धिवर्णनम् ||३०||८८॥ इति । : वीर्यप्रकर्षरूपायाः शुद्धाचारबललभ्यायाः तीर्थकरवीर्यपर्यवसानायाः वर्णनमिति, यथामेरुं दण्डं धरां छत्रं यत् केचित् कर्तुमीशते । तत् सदाचारकल्पद्रुफलमाहुर्महर्षयः ॥८७॥ [ परिणते गम्भीरदेशनायोगः ||३१||८९ ।। इति । ] तथा ]इति । तथा ] ॥३०॥ तथा अस्मिन् पूर्वमुद्दिष्टे उपदेशजाले श्रद्धान- ज्ञाना ऽनुष्ठानवत्तया परिणते सात्मीभावमुपगते सति उपदेशार्हस्य जन्तोः गम्भीरायाः पूर्वदेशनापेक्षया अत्यन्तसूक्ष्माया आत्मास्तित्व-तद्बन्ध-मोक्षादिकाया देशनायाः योग: व्यापारः कार्यः, इदमुक्तं भवति यः पूर्वं साधारणगुणप्रशंसादिः अनेकधोपदेशः प्रोक्त आस्ते स यदा तदावारककर्महासातिशयादाश्रीभावलक्षणं परिणाममुपगतो भवति तदा जीर्णे भोजनमिव गम्भीरदेशनायामसौ देशनार्होऽवता येते इति ||३१|| अयं च गम्भीरदेशनायोगो न श्रुतधर्मकथनमन्तरेणोपपद्यते इत्याह श्रुतधर्मकथनम् ॥ ३२ ॥ ९०॥ इति । For Private & Personal Use Only श्रुतधर्मस्य वाचना- प्रच्छना-परावर्तनाऽनुप्रेक्षा-धर्मकथनलक्षणस्य सकलकुशलकलापकल्पद्रुमविपुलालवालकैल्पस्य कथनं कार्यम्, यथाचक्षुष्मन्तत एवेह ये श्रुतज्ञानचक्षुषा । सम्यक् सदैव पश्यन्ति भावान् हेयेतरान्नराः ॥८८॥ [ अयं च श्रुतधर्मः प्रतिदर्शनमन्यथाऽन्यथा प्रवृत्त इति नासावद्यापि तत्सम्यग्भावं विवेचयितुमलमित्याहबहुत्वात् परीक्षावतारः ||३३||११|| इति । तस्य हि बहुत्वाच्छ्रुतधर्माणां 'श्रुतधर्मः' इति शब्दसमानतया विप्रलब्धबुद्धेः परीक्षायां त्रिकोटिपरिशुद्धिलक्षणायां श्रुतधर्मसम्बन्धिन्यामवतार: १. सात्मीयभाव K. ।। २. तार्य इति L. I ३. श्रुतकथन K. ४. प्रतिषु पाठाः कल्पस्य कथनं यथा चक्षु' K.LI कल्पस्य कथनं कार्य चक्षु Jसं. कल्पस्य चक्षु मू.।। ] ॥३२॥ प्रथमोऽध्यायः ३७ www.jainelibrary.org
SR No.600011
Book TitleDharmabinduprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorJambuvijay, Dharmachandvijay, Pundrikvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages379
LanguageSanskrit
ClassificationManuscript, Ethics, & Principle
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy