SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ सवृत्तिके धर्मबिन्दौ जन्म-मृत्यु-जरा-व्याधि-रोग-शोकायुपद्रुतम् । वीक्षमाणा अपि भवं नोद्विजन्त्यतिमोहतः ॥७९॥ [योगदृष्टि० ७९] धर्मबीजं परं प्राप्य मानुष्यं कर्मभूमिषु । न सत्कर्मकृषावस्य प्रयतन्तेऽल्पमेधसः ॥८०॥ [योगदृष्टि० ८३] अस्येति धर्मबीजस्य। बडिशामिषवत् तुच्छे कुसुखे दारुणोदये । सक्तास्त्यजन्ति सच्चेष्टां धिगहो दारुणं तमः ।।८१॥ [योगदृष्टि० ८४] ॥२७॥इति । तथासज्ज्ञानप्रशंसनम् ॥२८॥८६।। इति । प्रथमोऽध्यायः सद् अविपर्यस्तं ज्ञानं यस्य स सज्ज्ञान: पण्डितो जन: तस्य, सतो वा ज्ञानस्य विवेचनलक्षणस्य प्रशंसनं पुरस्कार इति, यथातन्नेत्रस्त्रिभिरीक्षते न गिरिशो नो पद्मजन्माऽष्टभिः स्कन्दो द्वादशभिर्न वा न मघवांश्चक्षुःसहस्रेण च । सम्भूयापि जगत्त्रयस्य नयनैस्तद्वस्तु नो वीक्ष्यते प्रत्याहृत्य दृश: समाहितधियः पश्यन्ति यत् पण्डिताः ॥८२॥ [ ]इति । तथानाप्राप्यमभिवाञ्छन्ति नष्टं नेच्छन्ति शोचितुम् । आपत्सु च न मुह्यन्ति नरा: पण्डितबुद्वयः ।।८३॥ [महाभारते उद्योगपर्वणि ५।३३।२३] न हृष्यत्यात्मनो माने नापमाने च रुष्यति । गाज़ो हद इवाक्षोभ्यो यः स पण्डित उच्यते ॥८४॥ [महाभारते उद्योगपर्वणि ५।३३।२६] ॥२८॥ तथा पुरुषकारसत्कथा ॥२९॥८७॥ इति । पुरुषकारस्य उच्छा(त्सा)हलक्षणस्य सत्कथा माहात्म्यप्रशंसनम्, यथा१. "मघवा बहुलम् पा४।१२८।। 'मघवन्' शब्दस्य वा तु इत्यन्तादेश: स्यात् । क्र इत् । उगिदचां सर्वनामस्थानेऽधातो: १७०॥ अधातोगितो नलोपिनोऽसतेच नुमागमः स्यात् सर्वनामस्थाने परे । उपधादीर्घः । मघवान् । इह दीघे.....। तथा च...... "हविर्जक्षिति निःशको मघवानसौ" इति भट्टिः। मघवन्तौ। मघवन्तः। मघवन्तम्। मघवन्तौ। मघवतः। मघवता। मघवद्भ्यामित्यादि। तृत्वाभाव। मघवा। सन्दसीवनिपौ...../ अन्तोदात्तं...../ मघवानौ । मघवानः। सुटि राजवत् ।" इति पाणिनीयव्याकरणस्य सिद्धान्तकौमुद्याम्। "इन्द्रो हरिहूं'च्यवनोऽच्युताग्रजो वज्री बिडौजा मधवान् पुरन्दरः । प्राचीनबर्हिः पुरुहूतवासवी संक्रन्दनाऽऽखण्डलमेघवाहनः।।२।१७१॥ पृतनापाडुग्रधन्वा मरुत्वान् मघवाऽस्य तु । द्विषः पाकोऽद्रयो वृत्रः पुलोमा नमुचिर्बलः ।।२।१७।।" इति हेमचन्द्राचार्यविरचितायाम् अभिधानचिन्तामणिनाममालायाम् ॥ २ “न हृष्यत्यात्मसंमाने नावमानेन (नापमाने च-K1प्रत्यन्तरे) तप्यते । गानो हद इवाक्षोभ्यो य: स पण्डित उच्यते ॥” इति महाभारते पाठः ।। Jain Education International Far Private Personal Use Only www.jainelibrary.org
SR No.600011
Book TitleDharmabinduprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorJambuvijay, Dharmachandvijay, Pundrikvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages379
LanguageSanskrit
ClassificationManuscript, Ethics, & Principle
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy