SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ सवृत्तिके धर्मबिन्दौ प्रथमोऽध्यायः मानुष्यकेऽपि दारिद्रय-रोग-दौर्भाग्य-शोक-मौयाणि । जाति-कुला-ऽवयवादिन्यूनत्वं चाश्नुते प्राणी ॥७३॥ देवेषु च्यवन-वियोगदुःखितेषु क्रोधेा -मद-मदनातितापितेषु । आर्या ! नस्तदिह विचार्य सङ्गिरन्तु यत् सौख्यं किमपि निवेदनीयमस्ति ।।७४॥ [ ] इति ।।२४|| तथा दुष्कुलजन्मप्रशास्तिः ॥२५॥८३॥ इति । दुष्कुलेषु शक-यवन-शबर-बर्बरादिसंबन्धिषु यज्जन्म असदाचाराणां प्राणिनां प्रादुर्भावः तस्य प्रशास्तिः प्रज्ञापना कार्या ॥२५॥ तत्र चोत्पन्नानां किमित्याह दुःखपरम्परानिवेदनम् ॥२६ ॥८४।। इति । दुःखानां शारीर-मानसाशमलक्षणानां या परम्परा प्रवाहः तस्या निवेदनं प्ररूपणम्, यथा असदाचारपारवश्याज्जीवा दुष्कुलेषूत्पद्यन्ते, तत्र चासुन्दरवर्ण-रस-गन्ध-स्पर्श-शरीरभाजां तेषां दु:खनिराकरणनिबन्धनस्य धर्मस्य स्वप्नेऽप्यनुपलम्भात् हिंसा-ऽनृत-स्तैयाद्यशुद्धकर्मकरणप्रवणानां नरकादिफल: पापकर्मोपचय एव संपद्यते, तदभिभूतानामिह परत्र चाव्यवच्छिन्नानुबन्धा दुःखपरम्परा प्रसूयते, यंदौच्यततैः कर्मभिः स जीवो विवश: संसारचक्रमुपयाति । द्रव्य-क्षेत्रा-उद्धा-भावभिन्नमावर्तते बहुशः ॥७५॥ [ ] ॥२६॥ तथा उपायतो मोहनिन्दा ॥२७॥८५।। इति । उपायत: उपायेन अनर्थप्रधानानां मूढपुरुषलक्षणानां प्रपञ्चनरूपेण मोहस्य मूढताया निन्दा अनादरणीयताख्यापनेति, यथाअमित्रं कुरुते मित्रं मित्रं द्वेष्टि हिनस्ति च । कर्म चारभते दुष्टं तमाहुर्मूढचेतसम् ॥७६॥ [महाभारते उद्योगपर्वणि ५।३३।३३] अर्थवन्त्युपपन्नानि वाक्यानि गुणवन्ति च । नैव मूढो विजानाति मुमूर्षुरिव भैषजम् ॥७७॥ [महाभारते उद्योगपर्वणि ५।१३२॥३] संप्राप्त: पण्डित: कृच्छं प्रज्ञया प्रतिबुध्यते । मूढस्तु कृच्छ्रमासाद्य शिलेवाम्भसि मज्जति ॥७८॥ [ अथवोपायतो मोहफलोपदर्शनद्वारलक्षणात् मोहनिन्दा कार्येति, १. स्तेयाद्विशुद्ध मू.। स्तेयाघशुद्ध सं.। 'स्तेयाशुद्धL.K.| २. यदुच्यते Jसं.॥ ३ अर्थवन्त्युपपन्नानि वाक्यानि गुणवन्ति च । नैव संप्राप्नुवन्ति त्वां मुमूर्षुमिव भेषजम् ।। इति महाभारते पाठः॥ Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600011
Book TitleDharmabinduprakaranam
Original Sutra AuthorHaribhadrasuri
AuthorJambuvijay, Dharmachandvijay, Pundrikvijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages379
LanguageSanskrit
ClassificationManuscript, Ethics, & Principle
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy