________________
समराइच्च
कहा
॥२०६॥
एवं च पर्यपिरपि विजयसिंहायरिए ईसि विहसिण भणिय पिङ्गकेण-भयवं ! सव्वमसंबद्धमेव भणियं भयवया । कहं ? सुणजं ताव भणियं - 'सव्वा अवेयणाणि भूयागि, ता कहं इमाणं एयप्पगारपरिणामपरिणयाण वि एसा पच्चक्खप्यमाणाणुभूयमाणा गमणाचेा निबन्धणा चेयणा जुज्जइ त्तिः न हि जं जेसु पत्तेयं न विज्जए तं तेर्सि समुदए वि हवइ, जहा वालुगाथाणगे तेल्लं', एयं कहं जुज्जइत्ति ? । न हि कारणाणुरूवमेव कज्जं भवइ । किष्ण होइ सिङ्गाओ सरो ? किं वा अदिस्लपरमाणुनिप्पन्नं घडाइ देस्सं ति ? | एवं चेणाविकज्जा य भविस्सर, भूयविलक्खणा यत्तिको विरोहो ? । जं च भणियं - 'अह पत्तेयं पि इमाणि चेयणाणि ति, तओ सिद्धमणेयचेयन्नसमुदओ पुरिसो, एगिन्दिया य जीवा घडादीणं च चेयण त्ति' इच्चेत्रमादि, तं पिन सोहणं । तेसिं चैव तहाविहपरिणामभावओ, तदभावओ चैत्र न घडादीणं च चेयण त्ति ॥
एवं च प्रजल्पति विजयसिंहाचार्ये ईषद् विहस्य भणितं पिङ्गकेन भगवन् ! सर्वमसंबद्धमेव भणितं भगवता । कथम् ? शृणु-यत् तावद् भणितम्- 'सर्वथा अचेतनानि भूतानि ततः कथमेषामेतत्प्रकारपरिणामपरिणतानामपि एषा प्रत्यक्षप्रमाणानुभूयमाना गमनादिचेष्टानिबन्धना चेतना युज्यते इति ? न हि यद् येषु प्रत्येकं न विद्यते, तत् तेषां समुदयेऽपि भवति, यथा वालुकास्थानके तैलम्,' एतत् कथं युज्यते इति ? । न हि कारणानुरूपमेव कार्य भवति । किं न भवति शृंगात् शरः ? किं वा अदृश्यपरमाणुनिष्पन्नं घटादि दृश्यमिति ? | एवं चेतनाऽपि तत्कार्या च भविष्यति, भूतविलक्षणा च इति को विरोध: ? । यच्च भणितम् - 'अथ प्रत्येकमपीमान चेतनानि इति, ततः सिद्धमने कचैतन्य समुदयः पुरुषः, एकेन्द्रियाश्च जीवाः घटादीनां च चेतना इति' इत्येवमादि, तदपि न शोभनम् । तेषामेव तथाविधपरिणामभावतः, तद्भावतश्चैव न घटादीनां चेतनेति ।
For Private & Personal Use Only
Jain Education International
तइओ भ
॥२०६ |
www.jainelibrary.org