________________
तइओ भवन
समराइच्च
कहा
RECREE
१६२॥
।
तइओ भवो। वक्खायं जं भणियं सीहा-पदा य तह पियापुत्ता । सिहि-जालिणिमाइसुआ एत्तो एअं पवक्खामि ॥ अत्थि इहेब जम्बुद्दीवे, अवरविदेहे खेत्ते अपरिमियजणनिवास, अणणुहूयवाहिवेयणं, अदिठ्ठपरचक्कविब्भम, सुन्दरपुरनायगभूयं कोसंबनाम नयरं। जत्थ सरलप्सहाबो, थिरसिणेहाणुबन्धो, अणङ्गरायहाणी, धम्मफलकप्पो इत्थियाजणो । जत्थ पियंत्रओ, सच्चवयणो, पढमाभिभासी, धम्मनिरओ य मणुस्सबग्गो। तत्थ य अणेयसमरसंघट्टविणिज्जियदरियनरिन्दावणयपल्हत्थवियडमउडकोडिरयणप्पहारज्जियचरणजुयलो राया नामेण अजियसेगो त्ति । तस्स य सयलरज्जचिन्तओ, अत्ताणनिधिसेसो इन्दसम्मो नाम माहणसचिवो। सुहंकरा से भारिया ॥ इओ य सो आणन्दनारओ सागरोवमन्तम्मि नरए खविऊण, अन्ने वि किंचूणे चत्तारि सागरोवमे संसारे
व्याख्यातं यद् भणितम् सिंहा-ऽऽनन्दौ च तथा पितृपुत्रौ ! शिखि-जालिनिमातृसुते इत एतत् प्रवक्ष्यामि || अस्ति इहैव जम्बुद्वीपे, अपरविदेहे क्षेत्रे अपरिमितजननिवासम् , अननुभूतव्याधिवेदनम्, अदृष्टपरचक्रविभ्रमम् , सुन्दरपुरनायकभूतं कौशाम्बं नाम नगरम् । यत्र सरलस्वभावः, स्थिरस्नेहानुबन्धः, अनङ्गराजधानी, धर्मफलकल्पः स्त्रीजनः । यत्र प्रियंवदः, सत्यवचनः; प्रथमाऽभिभापी धर्मनिरतो मनुष्यवर्गः । तत्र च अनेकसमरसंघट्टविनिर्जितहसनरेन्द्रावनतपर्यस्तविकटमुकुटकोटिरत्नप्रभारञ्जितचरणयुगलो राजा नाम्ना अजितसेन इति । तस्य च सकलराज्यचिन्तकः, आत्मनि विशेष इन्द्रशर्मा नाम ब्राह्मणसचिवः । शुभंकरा तस्य भार्या ॥
१ मुरपुरनायभूयं ख
Jain Education
For Private & Personal Use Only
Smalibrary.org