________________
समराइच्च
बीओम
कहा
॥१५८
॥१५८॥
गम्भपभिइमावीई सलिलच्छेए सरं व सूसन्तं । अणुसमयं मरमाणं जियइ त्ति जणो कह भणइ १॥ संपत्थियाण परलोगमेगसत्येण सत्थियाणं व । जइ तत्थ कोइ पुरओ बच्चइ भयकारणं किमिह १ ॥ जीयमणिश्चमवस्सं मरणं ति मणम्मि निच्छयं जस्स । सूणायारपसुस्स व का आसा जीविए तस्स? ॥ हंदि ! जराधणुहत्थो वाहिसयविइण्णसायगो एइ । माणुसमयजहवहं विहाणवाहो करेमाणो॥ न गणेइ पञ्चवायं न य पडियारं चिराणुवत्तिं वा । सच्छन्दमुहं विहरइ हरि व मच्चू मयकुलेसु ॥ एक चिय निविण्णा पुणो पुणो जाइउंच मरित्रं च । जे भवमच्चुबिग्गा भमरोगहरं अणु नरन्ति । जरमरणरोगसमणं जिणवयणरसायणं अमयसारं । पाउं परिणाममुहं नाहं मरणस्स बीहेमि ॥ गर्भप्रभृति आवीच्या सलिलच्छेदे सर इव शुष्यत् । अनुसमय म्रियमाणं जीवतीति जनः कथं भणति ? ॥ संप्रस्थितानां परलोकमेकसाथैण सार्थिकानामिव । यदि तत्र कोऽपि पुरतो ब्रजति भयकारणं किमिह ? ।। जीवितमनित्यमवश्यं मरणमिति मनसि निश्चयं यस्य । सूनागारपशोरिव काऽऽशा जीविते तस्य ?।। हन्त ! जराधनुर्हस्तो व्याधिशतवितीर्णसायक एति । मानुषमृगयूथवधं प्रभातव्याधः कुर्वन् । न गणयति प्रत्यवायं न च प्रतिकार चिरानुवृत्तिं वा । स्वच्छन्दसुखं विहरति हरिरिव मृत्युमंगकुलेषु । एके एव निर्विण्णाः पुनः पुनर्जनितुं च मर्तुं च । ये भवमृत्यूद्विग्ना भवरोगहरमनुचरन्ति । जरामरणरोगशमनं जिनवचनरसायनममृतसारम् । प्राप्य परिणामसुखं नाहं मरणाद् बिभेमि ।।
PARIRERIROCROSERIOLOGIE
Jain Education
al
For Private & Personal Use Only
Wawunjainelibrary.org