________________
निर्वाणकलिका.
॥ १६ ॥
Jain Education Internati
त्रा क्षः फुट् चतुःकोणेषु पद्मासनानि समारोप्य पद्मपिधानांश्चतुरो मङ्गलकलशान् लिखित्वा बाह्ये वायुभवनं | दद्यात् । इत्येतत्सर्वं कर्पूरगोरोचनामृगमदमिश्रेण कुङ्कुमरसेन काञ्चनतूलिकया सन्मण्डलं विलिखेत् । तदनु तन्म|ध्यकर्णिकायां भगवन्तमावाह्य पुष्पाक्षतचन्दनादिभिः सम्पूज्य पूर्वपश्चिमदक्षिणोत्तरासु सिद्धादिचतुष्कं आनेयनैर्ऋतवायव्यैशानेषु ज्ञानादिचतुष्कं च पूजयेत्। ततो दक्षिणभागे देवस्य शक्रश्रुतदेवते उत्तरतश्चेशानशान्तिदेवते सम्पूज्य केसरेषु मातृगणं प्रणवादिनमोन्तं सम्पूजयेत् । तदनु पत्रेषु जयादिदेवताचतुष्टयमाग्नेयादिषु जम्भादिदेवतागणं बहिश्चतुर्विंशत्यजपत्रेषु लोकान्तिकदेवतागणं अनन्तरषोडशपत्रेषु विद्याषोडशकमभ्यर्च्य । उपरितनपद्मद्वये क्रमेण वैमानिकदेवान् सदेवीकान् दिक्पालांश्च सम्पूज्य ततो द्वादशगणादिकमशेषमपि देवतागणं | मण्डलध्वजतोरणादिकं च पुष्पाक्षतादिभिरभ्यर्चयेत् । तथाचोक्तम् । भज्झे य नसेयवं नन्दावज्जं जवं कुसं सुमणम् । | तस्सोवरि हविज्जा पडिमा देवस्स इत्था (च्छा) ए ॥१॥ मज्झे निरञ्जण जिणो पुंधावरदाहिणोत्तरदिसासु । तह सिद्धसुरुवज्झायसाह्रसुति (इ?) रयणतियनासो ॥ २॥ केसरनिलये तह मायरो य मरुदेवि विजय सेणाँय । सिद्धत्था तह १ शक्तत इति क. पाठः । २ उपरिपद्म इति क. पाठः । ३ पुवेवर इति ग पाठः । ४ विजयमाणाय इति क. पाठः । मध्येच न्यासवितव्यं नन्दा ( वर्त ) व यवमङ्कुशं सुमनः । तस्योपरि स्थापयेत् प्रतिमां देवस्य इच्छायाः ॥ १ ॥ मध्ये निरञ्जनजिनः पूर्वापरदक्षिणोत्तर दिशासु । तथा सिद्धसूर्युपाध्यायसाधुशुचिरत्नत्रयन्यासः || २ || केसर निलये तथा मातरश्च मरुदेवी विजया सेना च । सिद्धार्था तथा मङ्गला सुसीमा पृथ्वी च लक्ष्मणा ॥ ३ ॥
*
For Private & Personal Use Only
बिम्बप्रति.
॥ १६ ॥
www.jainelibrary.org