________________
Jain Education Internati
श्वेतवाससा प्रच्छाद्य मूलमन्त्रेण संपूज्य हृदये संस्थाप्य मण्डपं प्रदक्षिणीकृत्य हिरण्यकांस्यवसुरत्नकरम्बकप|र्दकप्रक्षेपपूर्वकं नीत्वा मण्डपात्रे हृदये रथात्समुत्तार्य पश्चिमद्वारेण मण्डपं प्रवेश्य भद्रपीठे संस्थाप्य अग्रतः | पीठिकायां नन्दावर्ताख्यमण्डले मन्त्रान् सम्पूजयेत् । तत्र चन्दनानुलिप्ते श्रीपर्णीफलके पूर्ववत् चतुरस्रं क्षेत्र संसाध्य ब्रह्मस्थानात् सूत्रभ्रमेण सप्तवृत्तानि कृत्वा प्रथमवृत्ते तद्वृत्तप्रमाणां कर्णिकां तन्मध्ये नवकोणं नेन्दावर्त, पूर्वादिदिक्षु वज्रयवाङ्कुशसुमनोदामानि च लिखित्वा । ततो द्वितीयवृत्ते मूलमध्याग्रेषु शुक्लरक्तपीतं केसरजालं चतुर्विंशतिमातृयुतं तृतीयादिवृत्तेषु चतुर्विंशतिषोडशाष्टपत्रसंख्यया क्रमेण पद्मानि च निष्पाद्य आग्नेयनैर्ऋतवायव्येशानासु द्वादशगणान्विलिखेत् । बहिश्चतुर्द्वारान्वितं प्राकारत्रयं श्री शान्तिभूतिबलारोग्यसंज्ञकैस्तो| रणैरलङ्कृतं धर्ममानगजसिंहध्वजैः समन्वितमालिख्यानन्तरं प्रथमप्राकारपूर्वादिद्वाराभ्यन्तर उभयपार्श्वे कन| कपीतसितारक्तकृष्णवर्णानि वैमानिकव्यन्तरज्योतिष्क भवन पतिदेवानां युगलानि प्रथमप्राकारद्वारपालान् | खङ्गदण्डधनुः परशुसमन्वितान् सोमयमवरुण कुबेराख्यान्मध्ये च यष्टिहस्तं तुम्बुरुदेवं विलिख्य । ततो द्वितीयप्राकारद्वारेषु जया विजया अजिता अपराजिताभिधाना द्वारपालीः । तृतीयप्राकारद्वारेषु तुम्बुरुं चाभिलिख्य तदनु द्वितीयप्राकारान्तरे तिरश्चः तृतीयप्राकारान्तरे वाहनानि बाह्यभूमौ मनुष्यदेवानालिख्य । चतुर्द्वारोभयपार्श्वेषु | पद्मिनीखण्डमण्डिताः पुष्करिणीर्विलिखेत्। ततो वज्रलाञ्छितमिन्द्रपुरं दत्वा दिक्षु परविद्याक्षः फुट् कोणेषु परमं१. कर्णिकान्तर्मध्ये इति ख. पाठः । २ नन्द्यावर्त इति पाठः । ३ तंबुरुं क. तुंबरुं इति पाठः । ४ तिरि-तृतीय इति क. पाठी ।
For Private & Personal Use Only
www.jainelibrary.org