________________
निर्वाणकलिका.
॥ १३ ॥
Jain Education Inter
स्थाप्य धर्मादिचतुष्कं अधर्मादिचतुष्कं च शिलानामधिष्ठायकत्वेन विन्यस्य विशेषतः पूजां विधाय ततः संघादिकं पूजयेदिति । पादकास्ते तु संकल्पाः प्रासादस्य तु देशिकैः । सिद्धशक्तिं तु संयोज्य व्योमप्रासादमध्यगाम् ॥ इति पादप्रतिष्ठा प्रथमा ॥
॥ अथ द्वारप्रतिष्ठाविधिः ॥
तत्र पूर्ववत् द्रव्यवातमाहृत्य द्वारपालपूजादिकं कर्म कृत्वा द्वाराङ्गानि कषायादिभिः संस्नाप्य रक्तयुगया| संछाद्य मण्डपमध्ये वेदिकायामारोप्य अघ औदुम्बर आयान्तं क्ष्माप्तेजोवाताकाशगन्धरसस्पर्शशब्दोपस्थ| पायुपादपाणिवाकप्राणजिह्वाचक्षुस्त्वक्श्रोत्रमनोहङ्कारवुद्धिरागविद्या कला नियतिकालमायेति तत्र व्रातमारोप्य गन्धपुष्पाक्षतादिभिः सम्पूज्य स्वमत्रेणाधिवास्य द्वारदेशे वास्तुं सम्पूज्य रत्नादिपञ्चकं विन्यस्य प्रणवासनं | दत्त्वा सूरिः स्वमत्रेण लग्नवेलायां द्वारं विन्यस्य यवसिद्धार्थक क्रान्ताऋद्धिवृद्ध्यमृत मोहनागोशृङ्गमृद्वरोत्पलकु| ष्ठतिलाभिषवलक्ष्मणारोचनासह देवीदधिदूर्वेति द्रव्यसमूहं विचित्रकार्पटे बद्धा ऊर्ध्वोदुम्बरे यक्षेशश्रियं चात्मनो | दक्षिणवामशाखयोः कालगङ्गे महाकालयमुने विन्यस्येदिति देवताषट्कं जिनाज्ञया संनिरोध्य दूर्वादध्यक्षतादिभिः सम्पूजयेत् । पूर्ववत् शान्तिबलिं दत्वा भगवन्तं सम्पूज्य सङ्घं प्रपूजयेत् ॥ इति द्वारप्रतिष्ठा द्वितीया ॥ १ कान्ता इति ग. पाठः । २ सहदेवा इति ख. पाठः । ३ दूर्वाक्षतादिभिः इति ख. पाठः ।
For Private & Personal Use Only
द्वारप्रति.
॥ १३ ॥
www.jainelibrary.org