________________
निर्वाण॥ अथ प्रतिष्ठाविधिः॥
प्रतिष्ठाकलिका. द तत्र स्थाप्यस्य जिनबिम्बादेर्भद्रपीठादौ विधिना न्यसनं प्रतिष्ठा । तस्याश्च स्थापकत्रयं शिल्पी १ इन्द्रः २
विधिः आचार्य ३ श्चेति । तत्राद्यः सर्वाङ्गावयवरमणीयःक्षान्तिमार्दवार्जवसत्यशौचसम्पन्नः मद्यमांसादिभोगरहितः४ ॥ ११॥ीकृतज्ञो विनीतः शिल्पी सिद्धान्तवान् विचक्षण धृतिमान् विमलात्मा शिल्पिनांप्रधानो जितारिषड्वर्गः कृतकमा ।
तानिराकुल इति १। इन्द्रोऽपि विशिष्टजातिकुलान्वितो युवा कान्तशरीरः कृतज्ञो रूपलावण्यादिगुणाधारः
सकलजननयनानन्दकारी सर्वलक्षणोपेतो देवतागुरुभक्तः सम्यक् रत्नालङ्कृतः व्यसनासङ्गपराङ्मुखः शील-|| |वान् पश्चाणुव्रतादिगुणयुतो गम्भीरः सितदुकूलपरिधानः कृतचन्दनाङ्गरागो मालतीरचितशेखरः कनककुण्डलादिभूषितशरीरस्तारहारविराजितवक्षस्थलः स्थपतिगुणान्वितश्चेति २। सूरिश्चायदेशसमुत्पन्नः क्षीणप्रायकर्ममलो ब्रह्मचर्यादिगुणगणालङ्कतः पञ्चविधाचारयुतो राजादीनामद्रोहकारी श्रुताध्ययनसम्पन्नः तत्त्वज्ञो भूमिगृहवास्तुलक्षणानां ज्ञाता दीक्षाकर्मणि प्रवीणो निपुणः सूत्रपातादिविज्ञाने स्रष्टा सर्वतोभद्रादिमण्डलानामसमः प्रभावे आलस्यवर्जितः प्रियंवदो दीनानाथवत्सलः सरलखभावो वा सर्वगुणान्वितश्चेति । स च षष्ठाष्टमादितपोविशेषं विधाय कारापकानुकले लग्ने हस्तादारभ्य नवहस्तान्तानां प्रतिमानामाद्यासु तिस- ॥११॥ षु अष्टनवदशहस्तं इतरासु चतुर्हस्तादिप्रतिमासु हस्तद्वयवृद्ध्या, यद्वा एकहस्तादिक्रमेणैव द्वादशद्विहस्तवृद्ध्या
१ स्थाप्यजित इति ग. पाठः । २ श्चोपदेश इति क. ग. पाठः।
Jan Education Intel
For Private & Personal Use Only
woww.jainelibrary.org