________________
Jain Education Intern
॥ अथ शिलान्यासविधिः ॥
तत्र प्रासादक्षेत्रमष्टधा विभज्य चतुष्षष्टिकोष्टकान् कृत्वा चैशान - नैऋत्य- मूर्ध्ववंशं आग्नेयाश्च वायव्यान्तं | तिर्यग्वंशद्वयं दत्त्वा द्विपदं षट्पदं च रक्षाष्टकं विन्यस्य मर्माणि ज्ञात्वा ईशानकोणार्थे ईशं दत्त्वा 'पर्जन्य| जयमाहेन्द्ररविसज्यभृशान्पदिकान् सम्पूज्य अग्निकोणकोष्ठके व्योमपावकौ विन्यस्य पूषावितथग्रहक्षतयमगन्धर्वभृङ्गान् पदिकान् दत्त्वा नैर्ऋत्यकोणकोष्टके मृगपितरौ विन्यस्य दौवारिकसुग्रीवपुष्पदन्तवरुणअसुरशेपान् पदिकान् सम्पूज्य तदनु वायव्यकोणकोष्टके रोगवायू विन्यस्य नागमुख्य भल्लाट सोमदिति अदित्यन्तान् पदिकान् सम्पूज्य ईशान कोणे अदितिं संपूजयेत् ॥ मध्ये पदचतुष्टये ब्रह्माणं तस्यैशान्यां पदिको आपवत्सौ प्राच्यां षट्पदं मरीचिं आग्नेय्यां सवितासावित्रौ पदिको दक्षिणस्यां षट्पदं विवखन्तं नैर्ऋत्यामिन्द्रजयौ पदिको वारुण्यां षट्पदं मित्रम् वायव्यां रुद्ररुद्रदासौ पदिको उत्तरस्यां षट्पदं धराधरं इति आपवत्सादिक्रमेण दूर्वादध्यक्षतादिभिः सम्पूज्य ईशानादिदिक्षु चरकी स्कन्दा विदारी अर्यमा ललना जम्भा पूतना पाप| राक्षसी विलिपिच्छान्तैर्बहिर्देवताष्टकं पूजयेदिति । एकाशीतिपदे गृहवास्तौ मध्ये ब्रह्मा नवपदे मरीचाद्याः षट्पदा ईशानायाः आपचन्द्राद्या द्विपदाः पदिका वहिर्देवताश्च पूर्ववादसरक्षादिकं चेति एवं वास्तुं सम्पूज्य मर्माणि परिहृत्य शिलाप्रतिष्ठादिकं विदध्यात् । शिलाप्रतिष्ठाविधिः समाप्तः ॥
१ कोणके इति ख. ग. पाठः । २ भल्वाट इति क. ख. ग. पाठः । ३ आयवत्सो इति क. ख. पाठः । ४ वद्धं इति ख. ग. पाठः ।
For Private & Personal Use Only
1++++
www.jainelibrary.org