SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ योगगणानुज्ञार्थ चैत्यवन्दनं श्रुतादिदेवतानां च कायोत्सर्गाणि कृत्वा पञ्चनमस्कारपूर्वकं नन्दिसूत्रमावर्त-18 येत् । शिष्योऽपि मुखवस्त्रिकया स्थगितमुखकमलः शृणुयात् । अनन्तरमाचार्यो भगवत्पादयुगे वासान् प्रक्षिप्य गोमयशालिपुष्पादिचूर्णमयान् सङ्घभट्टारकस्य वासान् दत्त्वा एवं ब्रूयात्-'अहमस्य साधोरनुयोगमुक्तलक्षणमनुजानामि क्षमाश्रमणानां हस्तेन द्रव्यगुणपर्यायैर्व्याख्याङ्गरूपैरेषोऽनुज्ञातः' इत्यत्रान्तरे वन्दित्वा शिष्यः 'संदिशत यूयं किं भणामि' इत्यादिवर्णजातं यथैव सामायिकैः तथात्रैव द्रष्टव्यमिति । तदनु वासाक्षे| पपूर्वकं प्रदक्षिणात्रयं कारयित्वाऽनुयोगानुज्ञां दद्यात् । तदर्थ कायोत्सर्ग कृत्वा निषद्यायामुपविश्य आत्मनो दक्षिणभागे शिष्यमुपवेश्य लग्नवेलायां कुम्भकयोगेनाचार्यपरम्परागतं पुस्तकादिषु लिखितमाचार्यमन्त्रं निवेदयेत् । ततो गन्धपुष्पाक्षतान्वितं मुष्टित्रयमक्षाणां दत्त्वा तदनु छत्र-चामर-हस्त्यश्व-शिबिका-राजा-1 ४ङ्गानि योगपट्टक-खटिका-पुस्तका-ऽक्षसूत्र-पादुकादिकं च दद्यात् । खशाखानुगतं च नाम दत्त्वा खगच्छेन || सह द्वादशावर्तवन्दनकं दत्त्वा गणं समाज्ञां श्रावयेत्-'अद्यप्रभृति दीक्षाप्रतिष्ठाव्याख्यादिकं ज्ञात्वा परीक्ष्य च त्वया विधेयम्' इति । ततश्च 'व्याख्यानं कुरु' इत्यनुज्ञातो नन्द्यादिव्याख्यानं यथाशक्त्या करोत्यभिनवाचार्यः। तदनु मूलाचार्यों निषद्यायां समुपविश्य-"षत्रिंशदुज्वलमहागुणरनधुपैरेतत्पदं प्रथितगोतममुख्यपुम्भिः । आसेवितं सकलदुःखविमोक्षणाय निर्वाहणीयमशठं भवतापि नित्यम् ॥१॥ आरोप्यते १ नुयोगाज्ञा इति ग. पाठः। lan Education inter For Private & Personal use only Kuwww.jainelibrary.org
SR No.600004
Book TitleNirvankalika
Original Sutra AuthorPadliptsuri
AuthorMohanlal Bhagwandas Jhaveri
PublisherNathmalji Kaniyalalji Mumbai
Publication Year1926
Total Pages138
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy