________________
निर्वाण
आचार्याभिषेक:
कालका
॥९
॥
पदमिदं बहुपुण्यभाजो निर्वाहयन्ति च निरन्तरपुण्यभाजः। आराध्य शुद्धविधिना धनमेकमेकं संप्राप्नुवन्ति शनकैः शिवधामसौख्यम् ॥२॥ नास्मात्पदाजगति साम्प्रतमस्ति किंचिदन्यत्पदं शुभतरं परमं नराणाम् । येनात्र पञ्चपरमेष्ठिपदेषु मध्येऽतिक्रान्तमाद्ययुगलं खलु कालदोषात् ॥३॥" इत्यादिवाक्यैराचार्योऽनुशास्ति दद्यात् । तदनु भगवते निवेद्य 'आचार्योऽयं त्वदनुज्ञातो मया कृतो भवत्प्रसादादधिकारं निर्विघ्नेन करोतु' इति विज्ञापयेत् । पुनर्भगवते प्रणिपातं कारयित्वा भगवन्तं क्षमापयेत् । स च लब्धाधिकारो गुरुपारम्पर्यागतमधिकारं कुर्यादिति ॥ एवमनेन विधिना राज्यकामस्य भ्रष्टराज्यस्य पुत्रकामसौभाग्यकामयोश्चाभिषेकं कुर्यादिति ॥ अत्र शङ्खादीनां मन्त्राः। ॐआं इंउं आनन्दात्मने नमः । एवं शेषा अपि पूर्वोत्तरान्ता विज्ञेयाः। ॐआं ताई ऊं सर्वरत्नेभ्यो विश्वात्मकेभ्यो नमः। रक्षामन्त्रः। सर्वबीजेभ्यः इन्द्रात्मकेभ्यो नमः। बीजमन्त्रः। सर्वोषधि
भ्यः सोमात्मिकाभ्यो नमः । औषधिमन्त्रः । सर्वगन्धेभ्यः पार्थिवात्मकेभ्यो नमः । गन्धमन्त्रः। सर्वमृद्भ्यः पृथिव्यात्मिकाभ्यो नमः। मृत्तिकामन्त्रः। न्यग्रोधात्मने सुराधिपतोरणाय नमः।१। पलाशात्मने तेजोधिप-| तोरणाय नमः।२। उदुम्बरात्मने धर्मराजतोरणाय नमः।३। सिद्धकात्मने रक्षोधिपतोरणाय नमः।४। अश्वत्थात्मने सलिलाधिपतोरणाय नमः।५। मधुकात्मने पवनाधिपतोरणाय नमः। ६ । प्लक्षात्मने यक्षाधिपतोरणाय नमः।७। बिल्वात्मने विद्याधिपतोरणाय नमः।८। तोरणमन्त्रः॥ इति आचार्याभिषेकः ॥
१ कामभ्रष्ट इति ग. पाठः । २ सोमात्मकेभ्यः इति क. ख. ग. पाठः । ३ पृथिव्यात्मकेभ्य इति क. ख. ग. पाठः ।
Jan Education Inte
For Private & Personal use only
-www.jainelibrary.org