SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ Jain Education Intern मुखवासं च दद्यात् । दन्तधावनविधिः प्रातः प्रागुदगीशान पश्चिमेषु शस्तः अन्यत्र कृते शान्तिकर्म कुर्यात् । ततो रात्रावधि वासनामश्रेण त्रिपञ्चसप्तवारान् अधिवास्य शुद्धायां भूमौ दर्भशयने अस्त्रशतालम्भे प्राचीने | मस्तके हन्मन्त्रेण शिष्यं समारोप्य शिखया बद्धशिखं विधाय धर्मजप्तवाससा प्रच्छाद्य शाययेत् । शयनीयस्य | बहिर्भस्मसर्षपशिरोस्त्राभिमन्त्रितैस्तिस्रो रेखाः कृत्वा भूतबलिं दत्त्वा खयमप्युपोषितो भूत्वा दीक्षितैः सह शयीत । ततः प्रातरुत्थाय समाप्तनित्यकर्म विधिः शिष्यानाहूय खमदर्शनं पृष्ट्वा अशुभे शान्तिकर्म कृत्वा शुभे तु | विशेषपूजापुरःसरं मण्डलेषु मन्त्रान् सम्पूजयेत् । तत्र मण्डलानि सर्वतोभद्रादीनि । तत्र सर्वतोभद्रस्य मुख्यत्वात्त| देवोच्यते । तस्मिन् चतुरस्रं क्षेत्रं साधयेत् । शुद्धां दर्पणोदराकृतिं भुवं निष्पाद्य पुष्य पौष्णमघा वेधान् मण्डलस्थशङ्कुच्छायाप्रवेशनिर्गमाभ्यां वा पूर्वापरे संसाध्य पूर्वापरायतं सूत्रमास्फाल्य ब्रह्मस्थानं सङ्कल्प्य तस्मात्पूर्वापरगत समान्तरमङ्कद्वयं दत्त्वा तत्समं तत्र पूर्वयोरङ्कयोर्धृत्वा दक्षिणोत्तरमत्स्यद्वयं सम्पाद्य मत्स्योदरे दक्षिणोत्तरायतं सूत्रं प्रसार्य ततः क्षेत्रार्धमानेन मध्यादिष्टाङ्कं विधाय तदङ्कसमसूत्रेण विदिक्षु त्वनुलोमविलोमतो मत्स्य चतुष्कं दत्त्वा तेषु सूत्रचतुष्टयदानात् चतुरस्रं संसाध्य ततो मण्डलं विदध्यात् । तत्र चतुरस्रमष्टधा विभज्य चतुःषष्टिपदं कृत्वा मध्यकोष्टकचतुष्टये पद्मं सम्पाद्य तदनु पङ्कौ पद्मार्धेन वीथीवदनन्तरं पक्षयोश्चतुर्दिक्षु पद्मासनानि | चत्वारि द्वाराणि द्वारार्धमानात् कण्ठोपकण्ठं कपोलो पकपोलौ कुर्यात् । एवं विभज्य ब्रह्मस्थानात् सूत्रभ्रमेण १ मुपवासं इति क. ख. पाठः । | For Private & Personal Use Only www.jainelibrary.org
SR No.600004
Book TitleNirvankalika
Original Sutra AuthorPadliptsuri
AuthorMohanlal Bhagwandas Jhaveri
PublisherNathmalji Kaniyalalji Mumbai
Publication Year1926
Total Pages138
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy