SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ निर्वाण वृत्तमण्डलकं विधाय गन्धपुष्पधूपनैवेद्यादिकं दत्त्वा ॐवास्तोष्पतये ब्रह्मणे नमः। इति वास्तुं सम्पूज्य मध्यस्त- दीक्षाविधि कलिका. म्भाधः ॐस्कन्दाय गृहाधिपतये नमः। शयनीयशिरसि ॐकामाय कुसुमायुधाय नमः। गृहप्रधानपट्टे ॐहींभवनदेवतायै नमः। गृहप्रधानद्वारे ॐमहायक्षराजाय नमः । इति गृहदेवतागणं पूजयेत् । ततो मध्याह्न पुनरपि भट्टारकं सम्पूज्य सर्वमन्नं पात्रे समाहृत्य गृहदेवताभ्यो बलिं दत्त्वा बहिर्निर्गत्य दिग्देवताभ्यः ॐहीं इन्द्र प्रतिगृह नमः। ॐहीं ऐन्द्रि प्रतिगृह्ण नमः। एवं शेषा अपि अग्नये आग्नेय्य यमाय याम्यै नैर्ऋतये नैर्ऋत्यै वरुणाय वारुण्यै वायवे वायव्यै कुबेराय कौवेयें ईशानाय ईशान्य नागाय नागमात्रे ब्रह्मणे ब्रह्माण्यै नमः । इति पुष्पगन्धधूपसहितं बलिं दद्यात् । तदनु-योगिन्यो भीषणा रौद्रा देवता क्षेत्ररक्षकाः। आगत्य प्रतिगृह्णन्तु है जिनेष्टानुविधायिनः ॥१॥ ये रुद्रा रुद्रकर्माणो रौद्रस्थाननिवासिनः। सौम्याश्चैव तु ये केचित्सौम्यस्थाननि वासिनः ॥२॥ सर्वे सुप्रीतमनसः प्रतिगृह्णन्त्विमं बलिम् । सिद्धिं यच्छन्तु नः क्षिप्रं भयेभ्यः पान्तु नित्यशः॥३॥ इत्यनेन मन्त्रेण बलिं प्रक्षिप्य गन्धपुष्पान्वितं शेषमन्नं भूमौ निक्षिपेत्। ततो हस्तौ पादौ च प्रक्षाल्याचामेदिति। इति निर्वाणकलिकाभिधानायां प्रतिष्ठापद्धती नित्यकर्मविधिः समाप्तः॥ ॥ अथ दीक्षाविधिः॥ तत्राचार्यः कृतावश्यको देववन्दनादिकं कर्म कृत्वा पूजागृहमुपविश्य आत्मनो रक्षां विधाय भगवन्तं स-1 दम्पूज्य क्षेत्रपालानां बलिं दत्त्वा निर्वर्तितशान्तिकर्मविधिः मण्डपादहिर्मण्डलके शिष्यं समुपवेश्य दन्तधावनं । Jan Education Internell For Private & Personal Use Only www.jainelibrary.org
SR No.600004
Book TitleNirvankalika
Original Sutra AuthorPadliptsuri
AuthorMohanlal Bhagwandas Jhaveri
PublisherNathmalji Kaniyalalji Mumbai
Publication Year1926
Total Pages138
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy