SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ निर्वाणकलिका. ना वणा XXXXSAXGRAM तथा नवमं सुविधिजिनं धवलवर्ण मकरलाञ्छनं मूलनक्षत्रजातं धनराशिं चेति।तत्तीर्थोत्पन्नमजितयक्षं श्वेतवर्ण अहंदादीकूर्मवाहनं चतुर्भुजं मातुलिङ्गाक्षसूत्रयुक्तदक्षिणपाणिं नकुलकुन्तान्वितवामपाणिं चेति। तस्मिन्नेव तीर्थे समुत्पन्नां दिक्रमः सुतारादेवीं गौरवर्णी वृषवाहनां चतुर्भुजां वरदाक्षसूत्रयुक्तदक्षिणभुजां कलशाङ्कशान्वितवामपाणि चेति ॥९॥ ॥ तथा दशमं शीतलनाथं हेमाभं श्रीवत्सलाञ्छनं पूर्वाषाढोत्पन्नं धनूराशिं चेति । तस्मिंस्तीर्थे समुत्पन्नं ब्रह्म-12 यक्षं चतुर्मुखं त्रिनेत्रं धवलवर्ण पद्मासनमष्टभुजं मातुलिङ्गमुद्गरपाशाभययुक्तदक्षिपाणिं नकुलकगदाङ्कुशाक्षसूत्रान्वितवामपाणिं चेति । तस्मिन्नेव तीर्थे समुत्पन्नां अशोकां देवीं मुद्गवर्णी पद्मवाहनां चतुर्भुजां वरदपाश-* युक्तदक्षिणकरां फलाङ्कशयुक्तवामकरां चेति ॥१०॥ ॥तथैकादशं श्रेयांसं हेमवर्ण गण्डकलाञ्छनं श्रवणोत्पन्नं मकरराशिं चेति । तत्तीर्थोत्पन्नमीश्वरयक्षं धवलवर्ण त्रिनेत्रं वृषभवाहनं चतुर्भुजं मातुलिङ्गदान्वितदक्षिण-द पाणिं नकुलकाक्षसूत्रयुक्तवामपाणिं चेति । तस्मिन्नेव तीर्थे समुत्पन्नां मानवीं देवीं गौरवर्णा सिंहवाहनां चतुभुजां वरदमुद्गरान्वितदक्षिणपाणिं कलशाङ्कुशयुक्तवामकरां चेति ॥ ११॥ ॥ तथा द्वादशं वासुपूज्यं रक्तवर्ण महिषलाञ्छनं शतभिषजि जातं कुम्भराशि चेति । तत्तीर्थोत्पन्नं कुमारयक्षं श्वेतवर्ण हंसवाहनं चतुर्भुजंमा लिङ्गबाणान्वितदक्षिणपाणिं नकुलकधनुर्युक्तवामपाणिं चेति । तस्मिन्नेव तीर्थे समुत्पन्नां प्रचण्डादेवीं श्यामवर्णी अश्वारूढां चतुर्भुजां वरदशक्तियुक्तदक्षिणकरां पुष्पगदायुक्तवामपाणिं चेति ॥१२॥ ॥ तथा त्रयोदर्श विमलनाथं कनकवर्ण वराहलाञ्छनं उत्तरभाद्रपदाजातं मीनराशिं चेति । तत्तीर्थोत्पन्नं षण्मुखं यक्षं श्वेतवर्ण SACOSSOSTATOSTOSOS Jain Education Inter For Private & Personal Use Only Pilwww.jainelibrary.org
SR No.600004
Book TitleNirvankalika
Original Sutra AuthorPadliptsuri
AuthorMohanlal Bhagwandas Jhaveri
PublisherNathmalji Kaniyalalji Mumbai
Publication Year1926
Total Pages138
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy