SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ HALASSECRUS पद्मासनां चतुर्भुजां वरदपाशाधिष्ठितदक्षिणभुजां नागाङ्कुशान्वितवामकरां चेति ॥४॥ ॥ तथा पञ्चमं सुमतिहै जिनं हेमवर्ण क्रौञ्चलाञ्छनं मघोत्पन्नं सिंहराशिं चेति । तत्तीर्थोत्पन्नं तुम्बरुयक्षं गरुडवाहनं चतुर्भुजं वरदश-14 क्तियुतदक्षिणपाणिं नागपाशयुक्तवामहस्तं चेति । तस्मिन्नेव तीर्थे समुत्पन्नां महाकाली देवीं सुवर्णवर्णा पद्मवाहनां चतुर्भुजां वरदपाशाधिष्ठितदक्षिणकरां मातुलिङ्गाङ्कुशयुक्तवामभुजां चेति ॥५॥॥ तथा षष्ठं पद्मप्रभं रक्तवर्ण कमललाञ्छनं चित्रानक्षत्रजातं कन्याराशिं चेति । तत्तीर्थोत्पन्नं कुसुमं यक्षं नीलवर्ण कुरङ्गवाहनं चतुभुजं फलाभययुक्तदक्षिणपाणिं नकुलकाक्षसूत्रयुक्तवामपाणिं चेति । तस्मिन्नेव तीर्थे समुत्पन्नामच्युतां देवीं श्यामवर्णी नरवाहनां चतुर्भुजां वरदवीणान्वितदक्षिणकरां कार्मुकाभययुतवामहस्तां चेति ॥ ६॥ ॥ तथा सप्तमं सुपार्श्व हेमवर्ण खस्तिकलाञ्छनं विशाखोत्पन्नं तुलाराशिं चेति । तत्तीर्थोत्पन्नं मातङ्गयक्षं नीलवर्ण गजवाहनं चतुर्भुजं वित्तपाशयुक्तदक्षिणपाणिं नकुलकाङ्कुशान्वितवामपाणिं चेति। तस्मिन्नेव तीर्थे समुत्पन्नां शान्ता देवीं सुवर्णवणों गजवाहनां चतुर्भुजां वरदाक्षसूत्रयुक्तदक्षिणकरांशूलाभययुतवामहस्तां चेति ॥७॥ ॥ तथादष्टमं चन्द्रप्रभजिनं धवलवर्ण चन्द्रलाञ्छनं अनुराधोत्पन्नं वृश्चिकराशिं चेति । तत्तीर्थोत्पन्नं विजययक्षं हरित वर्ण त्रिनेत्रं हंसवाहनं द्विभुजं दक्षिणहस्ते चक्रं वामे मुद्गरमिति । तस्मिन्नेव तीर्थे समुत्पन्नां भृकुटिदेवीं पीतवर्णी वराह( बिंडाल )वाहनां चतुर्भुजां खडमुदरान्वितदक्षिणभुजां फलकपरशुयुतवामहस्तां चेति ॥८॥ १ बाण इति पाठान्तरम् । २ विराल इति पाठान्तरम् । १ बाण इ ला चतुभुजां खड्गमुद्रास्मिन्नव तीर्थे समुत्पन्नां भकानिहारत Jan Education inte For Private & Personal Use Only www.jainelibrary.org
SR No.600004
Book TitleNirvankalika
Original Sutra AuthorPadliptsuri
AuthorMohanlal Bhagwandas Jhaveri
PublisherNathmalji Kaniyalalji Mumbai
Publication Year1926
Total Pages138
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy