SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ शिखिवाहनंद्वादशभुजं फलचक्रवाणखगपाशाक्षसूत्रयुक्तदक्षिणपाणि नकुलचक्रधनुःफलकाङ्कुशाभययुक्तवाम13/पाणि चेति । तस्मिन्नेव तीर्थे समुत्पन्नां विदितां देवी हरितालवर्णी पद्मारूढां चतुर्भुजां बाणपाशयुक्तदक्षिण पाणिं धनुर्नागयुक्तवामपाणिं चेति ॥१३॥ ॥ तथा चतुर्दशं अनन्तं जिनं हेमवर्ण श्येनलाञ्छनं खातिन क्षत्रोत्पन्नं तुलाराशिं चेति । तत्तीर्थोत्पन्नं पातालयक्षं त्रिमुखं रक्तवर्ण मकरवाहनं षड्भुजं पद्मखड्गपाशयुक्त18 दक्षिणपाणि नकुलफलकाक्षसूत्रयुक्तवामपाणिं चेति । तस्मिन्नेव तीर्थे समुत्पन्नां अशां देवीं गौरवर्णी पद्मवा हनां चतुर्भुजां खड्गपाशयुक्तदक्षिणकरां चर्मफलकाङ्कुशयुतवामहस्तां चेति ॥ १४ ॥ ॥ तथा पञ्चदशं धर्म-|| जिनं कनकवर्ण वज्रलाञ्छनं पुष्योत्पन्नं कर्कराशिं चेति । तत्तीर्थोत्पन्नं किंनरयक्षं त्रिमुखं रक्तवर्ण कर्मवाहनं षट्भुजं बीजपूरकगदाभययुक्तदक्षिणपाणिं नकुलपद्माक्षमालायुक्तवामपाणिं चेति । तस्मिन्नेव तीर्थे समुत्पन्न | कन्दा देवी गौरवर्णा मत्स्यवाहनां चतुर्भुजां उत्पलाङ्कुशयुक्तदक्षिणकरां पद्माभययुक्तवामहस्तां चेति ॥१५॥ ॥ तथा षोडशं शान्तिनाथं हेमवर्ण मृगलाञ्छनं भरण्यां जातं मेषराशिं चेति।तत्तीर्थोत्पन्नं गरुडयक्षं वराहवाहनं । 15 कोडवदनं श्यामवर्ण चतुर्भुज बीजपूरकपद्मयुक्तदक्षिणपाणिं नकुलकाक्षसूत्रवामपाणिं चेति । तस्मिन्नेव तीर्थे । समुत्पन्नां निर्वाणां देवीं गौरवर्णा पद्मासनां चतुर्भुजां पुस्तकोत्पलयुक्तदक्षिणकरां कमण्डलुकमलयुतवाम-7 हस्तां चेति ॥ १६ ॥ ॥ तथा सप्तदशं कुन्थुनाथं कनकवर्ण छागलाञ्छनं कृत्तिकाजातं वृषभराशिं चेति ।। तत्तीर्थोत्पन्नं गन्धर्वयक्ष श्यामवर्ण हंसवाहनं चतुर्भुजं वरदपाशान्वितदक्षिणभुजं मातुलिङ्गाङ्कुशाधिष्ठितवा-3 PASSSSSSSSSSS-44 Jan Education interne For Private & Personal Use Only T ww.jainelibrary.org
SR No.600004
Book TitleNirvankalika
Original Sutra AuthorPadliptsuri
AuthorMohanlal Bhagwandas Jhaveri
PublisherNathmalji Kaniyalalji Mumbai
Publication Year1926
Total Pages138
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy