SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ निर्वाण-18दर्य मुष्टिं वध्वा तर्जन्यो समीकृत्य प्रसारयेदिति भृङ्गारमुद्रा ॥ ११॥ वामहस्तमणिबन्धोपरि पराशुखं प्रायश्चित्त. दक्षिणकरं कृत्वा करशाखा विदय किश्चिद्वामवलनेनाधोमुखाङ्गुष्ठाभ्यां मुष्टिं बध्वा समुत्क्षिपेदिति योगिनी मुद्रा ॥१२॥ ऊर्ध्वशाखं वामपाणिं कृत्वाऽङ्गष्ठेन कनिष्टिकामाक्रमयेदिति क्षेत्रपालमुद्रा ॥ १३ ॥ दक्षिणकरेण ॥३३॥ मुष्टिं बध्वा कनिष्ठिकाङ्गुष्ठौ प्रसार्य डमरुकवचालयेदिति डमरुकमुद्रा ॥१४॥ दक्षिणहस्तेनोर्वाङ्गलिना पताकाकारणाभयमुद्रा ॥१५॥ तेनैवाधोमुखेन वरदा ॥१६॥ वामहस्तस्य मध्यमाङ्गुष्ठयोजनेन अक्षसूत्रमुद्रा 2॥१७॥ बद्धमुष्टेर्दक्षिणहस्तस्य प्रसारिततर्जन्या वामहस्ततलताडनेन त्रासनी ॥१८॥ पद्ममुद्रेव प्रसारिताङ्गुष्ठ-४ द्र संलग्नमध्यमाङ्गल्यग्रा बिम्बमुद्रा ॥ १९॥ एताः सामान्यमुद्राः॥ इति मुद्राविधिः॥ ॥अथ प्रायश्चित्तविधिः॥ तत्र श्रेष्ठविम्बे नष्टे दग्धे तस्करादिहते मूलमन्त्रस्य लक्षं जपित्वा बिम्बान्तरप्रतिष्ठापनेन शुद्ध्यति । हस्तात्पतिते व्यङ्गे दशसहस्रं जपित्वा पुनः पूजां कुर्यात् । द्विहस्तात्पतिते व्यङ्गे लक्षमेकं जपित्वा पुनः संस्कारेण है। शुद्ध्यति । पुरुषमात्रात्पतिते प्रयत्नपूर्व सशलाके सर्वतो विशीर्णे प्रायश्चित्तं नास्तीति । अस्यायमर्थ:-शलाका ॥३३॥ भेदघातस्यातिगुरुत्वान्न प्रतिमादिना भवितव्यम् । स्थण्डिलेऽप्यावाहनादिषु समाप्ते पूजाकर्मण्यविसर्जित एव देवेशे प्रमादादुपघाते जाते अर्चापुष्पादिभ्यो मन्त्रान् संहृत्य सहस्रपञ्चकं जपित्वा साधून भोजयेत् । देवो १ विश्वमुद्रा इत्यन्यत्र । २ अथावाहनादिषु इति ख. ग. पाठः । ३ देवेन इति ग. पाठः । ACCALCULOSURGEORSCORG SC-CGRASSACRORoot Jain Education Internal For Private & Personal use only ww.jainelibrary.org
SR No.600004
Book TitleNirvankalika
Original Sutra AuthorPadliptsuri
AuthorMohanlal Bhagwandas Jhaveri
PublisherNathmalji Kaniyalalji Mumbai
Publication Year1926
Total Pages138
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy