________________
ARRORSCOREGAON
पकरणं पादेन स्पृष्ट्वा शतपञ्चकं जपेत् । सन्ध्यालोपे नीरजः सोपवासं शतं जपेत् । सरुजः शतं जपेदेव। एकाहं देवस्थानचने त्रिरात्रमुपोषितःप्रत्यहं त्रिशतं जपेत् । निर्माल्यभक्षणे त्वकामान्नमस्कारायुतं (दशसहस्रं) ६ जपेत् । ततो विशेषपूजया तपखिदानेन शुद्ध्यति । कामतो लक्षं नमस्कारस्थावोपवासपञ्चकं कुर्यात् । निर्माल्यभेदाः कथ्यन्ते ॥ देवखं देवतव्यं नैवेद्यं निवेदितं निर्माल्यं वेति । देवसम्बन्धिग्रामादि देवस्खं । अलं
कारादि देवद्रव्यम् । देवार्थमुपकल्पितं नैवेद्यम् । तदेवोत्सृष्टं निवेदितं । बहिर्निक्षिप्तं निर्माल्यम्। पञ्चविधमपि4 ४ निर्माल्यं न जिभेन्नावलङ्घयेत् न च दद्यान्न विक्रीणीत । दत्वा क्रव्यादो भवति भुक्त्वा मातङ्गो लङ्घने सिद्धि|हानिः आघ्राणे वृक्षः स्पर्शने स्त्रीत्वं विक्रये शबरः । पूजायां दीपालोकनधूपान्नादिगन्धे न दोषः । नदीप्रवाह-2 निर्माल्येऽपि च । सूतकशावाशौचयोः परकीययोर्न भोक्तव्यम् । भुक्त्वा वा अकामतः समुपोष्य मन्त्रसहस्रं ४ जपेत् । कामतस्तूपवासत्रयं कृत्वा मूलमन्त्रं सहस्रनयमावर्तयेत् । आत्मसम्बन्धिनोः सूतकशावाशौचयोः ।
सूतकिजनसंस्पर्श विधाय पृथक्पाकेन भोक्तव्यमन्यथा नित्यहानिर्भवति । अथ सूतके शाबाशीचे च सुधर्मदास्थेन क्रियानुष्ठानपरेण ज्ञानवता वृत्तवता च न नित्यक्षतिः कार्या। यदि च नित्यानुष्ठानं न भवति प्रमादात्
सूतकिसंसृष्टासाधारणपाकभोजनं वा तदा स उपोष्य सहस्रं जपेत् । कामतस्त्रिगुणं तदेव । आहिकदेवतार्चभानादिलोपे मूलमन्त्रस्यायुतं जपेत् । समुपोष्य शतं वा जपेत् ॥ इति प्रायश्चित्तविधिः॥
lan Education Internat
For Private & Personal Use Only
a
w.jainelibrary.org