________________
६ पूर्वोक्ताभिः सह दिक्पालानां मुद्राः॥॥ग्राह्यस्योपरि हस्तं प्रसार्य कनिष्ठिकादितर्जन्यन्तानामङ्गुलीनां क्रमसङ्को
चनेनाङ्गुष्ठमूलानयनात् संहारमुद्रा विसर्जनमुद्रेयम् ॥ उत्तानहस्तद्वयेन वेणीवन्धं विधायाङ्गुष्ठाभ्यां कनिष्ठिके 2 तर्जनीभ्यां च मध्यमे संगृह्यानामिके समीकुर्यादिति परमेष्ठिमुद्रा ॥१॥ यदा वामकराङ्गुलीरुवीकृत्य मध्यमां मध्यमे कुर्यादिति द्वितीया ॥२॥ पराअखहस्ताभ्यां वेणीबन्धं विधायाभिमुखीकृत्य तर्जन्यौ संश्लेष्य शेषाङ्गुलिमध्ये अङ्गुष्ठद्वयं विन्यसेदिति पार्श्वमुद्रा॥३॥ एता देवदर्शनमुद्राः॥ ॥ इदानी प्रतिष्ठोपयोगिमुद्राः। उत्तानो किञ्चिदाकुञ्चितकरशाखौ पाणी विधारयेदिति अञ्जलिमुद्रा ॥१॥ अभयाकारी समश्रेणिस्थिताङ्गुलीको करौ विधायाङ्गुष्ठयोः परस्परग्रथनेन कपाटमुद्रा ॥२॥ चतुरङ्गुलमग्रतः पादयोरन्तरं किञ्चिन्यूनं च पृष्ठतः कृत्वा समपादकायोत्सर्गेण जिनमुद्रा ॥३॥ परस्पराभिमुखौ ग्रथिताङ्गुलीको करौ कृत्वा तर्जनीभ्यामनामिके गृहीत्वा मध्यमे प्रसार्य तन्मध्येऽङ्गुष्ठद्वयं निक्षिपेदिति सौभाग्यमुद्रा ॥ ४॥ वामहस्ताङ्गलितर्जन्या कनिष्ठिकामाक्रम्य
तर्जन्यग्रं मध्यमया कनिष्ठिकाग्रं पुनरनामिकया आकुञ्जय मध्येऽङ्गुष्ठं निक्षिपेदिति योनिमुद्रा ॥५॥ आत्मMनोऽभिमुखदक्षिणहस्तकनिष्ठिकया वामकनिष्ठिकां संगृह्याधःपरावर्तितहस्ताभ्यां गरुडमुद्रा ॥ ६॥ संलग्नौ
दक्षिणाङ्गुष्ठाक्रान्तवामाङ्गुष्ठपाणीति नमस्कृतिमुद्रा ॥७॥ किश्चित् गर्भितौ हस्तौ समौ विधाय ललाटदेशयोजनेन मुक्ताशुक्तिमुद्रा॥८॥ जानुहस्तोत्तमाङ्गादिसंप्रणिपातेन प्रणिपातमुद्रा॥९॥ संमुखहस्ताभ्यां वेणीबन्धं विधाय मध्यमाङ्गुष्ठकनिष्ठिकानां परस्परयोजनेन त्रिशिखमुद्रा ॥१०॥ पराङ्मुखहस्ताभ्यामङ्गुलीवि-10
Jan Education inte
For Private & Personal Use Only
www.jainelibrary.org