________________
अनेकान्त 67/1, जनवरी-मार्च 2014
अर्थात् अस्मिन् संसारे चेतनरहित, पदार्थो दृश्यते तथा चेतनस्तु न दृश्यते। अतो मध्यस्थोऽहं केन स्पष्टस्तथा केन सन्तुष्टो भवामि समाधितंत्रे उक्तमस्ति -
'रागद्वेषादिकल्लोलैरलोलं यन्मनोजलम्। स पश्यत्यात्मनस्तत्वं तत्त्वं नेतरो जनः।।'
- समाधितंत्र, श्लोक-३५ अर्थात् राग-द्वेषादिकल्लोलैः (सांसारिकविषयैः) यस्य चित्तरुपं जलं चायल्यरहितं भवति.सः पुरुषः आत्मनः तत्वं पश्यति। एतद् विपरीतः पुरुषः तच्च तत्वं न द्रुष्टुं शकनोति।
पूज्यपादस्य कथनमनुसन् देवसेनोनोक्तम् - 'राय दोसादीहिय डहुलिजइ णेव जस्स मणसलिलम्। सो णियतच्चं पिच्छइण हु पिच्छइ तस्स विवरीओ।।''
अर्थात् यस्य मनः राग-द्वेषादिभिः चंचलं न भवति, स हि निजतत्वं परिचिनोति। अस्य विपरीतस्तु पुरुषः निश्चिमेव न परिचिनोति।
पूज्यपादः आत्मस्वरुपं विवेचयन इष्टोपदेशे उक्त उक्तवान् - 'स्वसंवेदनसुव्यक्तस्तुनमात्रो निरत्ययः। अत्यंतसौख्यवान् आत्मा लोकालोकविलोकनः।।'
- इष्टोपदेश श्लोक २१ अर्थात् आत्मा स्वानुभूत्या व्यक्तस्तथा स्वशरीर प्रमाणवान्, अविनाशी, अनन्त-सुखवान्, लोकालोकप्रकाशकश्चास्ति।
एवमेव तत्वसारे देवसेनसोऽपि आत्म स्वरुपं वर्णयन् उक्तवान् - दंसणणाणपहाणो असंखदेसो हु मुत्तिपरिहीणो। सगहियदेहपमाणो णायत्वो एरिसो अप्पा॥'
अर्थात् आत्मा दर्शन एवं ज्ञान गुण प्रधानोऽस्ति, असंख्यातप्रदेशी, आकार-रहितः, स्वे न चारणकृतशरीर प्रमाणेऽस्ति। एवं स्वरुवन्तं आत्मानं ज्ञातव्यम्।
आध्यात्मस्य विवेचनं कुर्वनं इष्टोपदेशे उक्तम् - परिषहाद्यविज्ञानादास्रवस्य निरोधिनी । जायतेऽयात्मयोगेन कर्मणामाशु निर्जरा।।
- इष्टोपदेश, श्लोक - २४ अर्थात् आध्यात्मयोगेन परीषहादेः ज्ञानेन आसवं अवरोधकानां कर्मणां निर्जरा शीघ्रमेव भवति।
इयमेवाभिप्रायं तत्वसारे देवसेन प्रकटीकृतम् - 'मण वयण कायरोहे रुझइ कम्माण आसवो Yणम्।