________________
86
अनेकान्त 67/1, जनवरी-मार्च 2014 जातः, हे नाथ! भवान् परमदेवो वर्तते। हे जिनश्रेष्ठ! अस्मत्कल्याणाय प्रसीद।
अयमेव भावः तत्वसारे यथा - 'दि विमलसहावे णियतच्चे इंदियत्थपरिचत्ते। जायइ जो इस्स फुडं अमाणुसत्तं खणद्धेण॥'
तत्त्वसार गा. ४२ अर्थात् निर्मलस्वभाववान् तथेन्द्रियविषयरहितः तथा निजआत्मतत्वे दृष्टे अर्धक्षणे योगिनः स्पष्टरुपेण अमानुषीभावः प्रकटीभवति।
उपर्युक्तविवेचनेन स्पष्टमस्ति देवसेनः अनेकत्र बृहत्स्वयंभूस्तोत्रात् भावं गृहीतवान्। योगीन्द्र-देवस्तथा देवसेनः -
देवसेनाचार्यः तत्वसारे निश्चयनयेन सर्वेणां जीवानां समानतायाः वर्णनं कुर्वन् लिखितवान् -
'जम्मणमरणविमुक्का अप्पपएसेहिं सव्वसामण्णा।
सगुणेहिं सव्वसरिसा णाणया णिच्छयणएण।।'
अर्थात् निश्चयनयानुसारं जन्म-मरणारहित स्यात्मानः प्रदेशानामपेक्षया सर्वसामान्येषु आत्मगुणेषु सर्वसमानाः तथा ज्ञानमया अवलोकिताः सन्ति। इयमेव योगीन्द्रदेव समताभावं वर्णयन् एवमुक्तवान् -
'सव्वे जीव णाण मया जो समभाव मुणेइ।
सो सामाङ जाणि कुटु जिणवर एमभगेई।।' अर्थात् सर्वे जीवा ज्ञानमयाः समानाश्च सन्ति, एवं मत्वा यः समभावेन मननं करोति, तस्यैव सत्य-सामयिक भवति, एवं जिनवरेण उक्तम्। आचार्यः पूज्यपाद-स्तथादेवसेनः -
आचार्येण पूज्यपादेन विरचितस्य समाधितंत्रस्य देवसेनः यत्र-तत्र भावानुसरणमकरोत। पूज्यपादेनोक्तं -
'अचेतनमिदं दृश्यमदृश्यं चेतनं ततः।
क्व रुष्यामि क्व तुष्यामि मध्यस्थोऽह भवाम्यतः।।'
अर्थात् यदेतत् किंचित दृश्यं दर्शनयोग्यं अथवा द्रष्टुं अवशेषमस्ति, तद्धि अचेतनमस्ति चेतनं दृश्यं अदर्शनीयमस्ति। अतोऽहमं केन कुद्धस्तथा केन संतुष्टो भवामि? अस्मात् कारणात् मध्यस्थो भवामि।
समाधितंत्रस्य उक्तश्लोकस्य देवसेनस्य तत्वसारस्य निम्नश्लोके स्पष्टमनुकरणं द्रष्टव्यमस्ति
'चेयणरहिओ दीसइ ण य दीसइ इत्थ चेयणासहिओ। तम्हा मज्झत्थोहं रूसेमि य कस्स तूसेसि॥' ।
- तत्त्वसार, गाथा-३६
यदेततक्वतयातनंतर