SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ 85 अनेकान्त 67, जनवरी-मार्च 2014 आचार्यो देवसेनः गृद्धपिच्छाचार्य उमास्वामी द्वारा विरचितस्य तत्वार्थसूत्रस्य आलापपद्धतौ बहुशोऽनुकरणं कृतवान् अस्ति। यत्र-तत्र तु तत्वार्थसूत्रस्य सूत्राणि यथावद् गृहीतवान्। यथा - ‘सद् द्रव्यलक्षणम्'।' 'उत्पादव्ययधौव्ययुक्तं सत्। 'गुणपर्ययवद् द्रव्यम्। इमानि सूत्राणि तत्वार्थसूत्रे एव आलापपद्धतौ उभयत्र वर्तते। एतदति रिक्तमनेकसूत्राणि तत्वार्थसूत्रेण स्पष्टतया प्रभावितानि सन्ति, तेषु कानिचिदेवम्_ 'प्रमाणनयैरधिगमः, प्रमाणनयविवक्षातः', 'सर्वद्रव्यपर्याषु केवलस्य, 'केवलं सकलप्रत्यक्षम्, आद्ये परोक्षम्, ‘मतिश्रुते परीक्षणम्।। एतेषां सूत्राणामवलोकनेन स्पष्ट। प्रतीयते यत् देवसेनः तत्वार्थसूत्रस्य सूत्रेषु यत्र-तत्र किंचित् परिवर्तनं कृतवान् अस्ति तथा यत्र-तत्र सर्वनाम-स्थाने प्रसंगवशात् संज्ञा-शब्दानां प्रयोगं कृतवान्। अन्यान्यप्यनेक सूत्राणि तत्वार्थसूत्रेण साक्षात् तथा परम्परया प्रभावितानि सन्ति। आचार्य समन्तभद्रस्तथा देवसेनः - समन्तभद्राचार्यः बृहत्स्वयंभूस्तोत्रे भगवतः कुन्थनाथस्य स्तुतिं कुर्वन् उक्तवान। 'हुत्वा स्वकर्म-कटुक प्रकृतीश्चस्त्रो रत्नत्रयातिशयतेजसि जातवीर्यः। द्रभाजिषे सकलवेदविधेर्विनेता व्यभ्रे यथावियति दीप्तरुचिर्विवस्वान्। अर्थात् घातककर्मणां कटुक स्ववतीः चतुः प्रकृतीः विनाश्य रत्नत्रयस्यातिशयते जसि समुत्पन्नाति शयतेजीवान् अनन्तवीर्यवान् तथा सम्पूर्णवेदविधेर्विनेताभवान् तथैव शोभते यथा मेघरहिते गगने प्रदीप्त किरणवान् सूर्यः सुशोभिते। इममेव भावं अभिव्यक्तयन् देवसेनः तत्वसारे एवमुक्तवान् - 'जह-जह मणसंचारा इंदियविसया वि उवसमं जति। तह-तह पयडइ अप्पा अप्पाणं जहाणहे सूरो।' - तत्त्वसार, गाथा-३० अर्थात् यथा-यथा मनसः संचारः तथा इन्द्रियविषया अपि उपशमं प्रयान्ति, तथा-तथा आत्मा स्वंशुद्धं स्वरुपं तथैव प्रकटयति यथा आकाशे सूर्यः। धर्मनाथं भगवन्तं स्तुवन् समन्तभद्राचार्यः लिखितवान् - 'मानुषी' प्रकृतिमभ्यतीतवान् देवतास्वपि देवता यतः। तेन नाथ परमसि देवता श्रेयते जिनवृष प्रसीदनः।। - वृहत्स्वयंभूस्तोत्र, श्लोक-७५ अर्थात् यतः भवता मानुषीस्वभावः दूरे कृतः तथा देवानां अपि देवो
SR No.538067
Book TitleAnekant 2014 Book 67 Ank 01 to 04
Original Sutra AuthorN/A
AuthorJaikumar Jain
PublisherVeer Seva Mandir Trust
Publication Year2014
Total Pages384
LanguageHindi
ClassificationMagazine, India_Anekant, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy