________________
अनेकान्त 67/1, जनवरी-मार्च 2014 'जो मूढो अण्णणी ण हु कालो भणई दाणस्स।। भरहे दुस्समकाले धम्मज्झाणं हवेइ साहुस्स। तं अप्पसहावठिदे ण हु मण्णइ सो वि अण्णाणी।। अज्ज वि तिरयणसुद्धा अप्पा झएवि लहहि इदत्त। लोयंतियदेवत्तं तत्थ चूजा णिवुदिं जंति।।
- मोक्ष पाहुड, गाथा- ७५-७७ ते सन्ति मूर्खा अज्ञानिनो ये वदन्ति नायं ध्यानकालः। अद्यपि भारतक्षेत्रस्य साधवः विषमकालेऽपि आत्मस्वभावेस्थिताः धर्म्यध्यानं कुर्वन्ति तथा रत्नत्रयेण विशुद्धो जीवः आत्मनो ध्यानं कृत्वा इन्द्रत्वमथवा लोकान्तिकं देवत्वमधिगत्य ततः च्युतो भूत्वा निर्वाणं गच्छति।
देवसेनोऽपि तत्वसारे तान् भर्त्सितवान्, ये मन्यन्ते यदयं ध्यानस्य कालो नास्ति -
‘सकां करवा गहिया विसयपसत्ता सुमग्गोपब्भट्ठा। एवं भणंति केई ण हु कालो होई झणस्स॥ अज्जवि तिरयणवंता अप्पा झाऊण जंति सुरलोए। तत्थ चुया मणुयत्ते उप्पज्जिय लहहि णिव्वाण।। १४-१५
अर्थात् शंका-कांक्षा इति दोषैर्युक्ताः, विषयवशीभूताः सन्मार्गभ्रष्टाः केचन वदन्ति यदयं कालोध्यानस्य नास्ति, परन्तु अद्यापि रत्नत्रयधारीजीवः आत्मनो ध्यानं कृत्वा देवलोकं गच्छन्ति ततश्च विदेहक्षेत्रस्य उत्तम - मनुष्येषु उत्पन्नो भूत्वा निर्वाणं प्राप्नोति।
तत्वसारस्य उक्तगाथासु शब्दगता अर्थगता च अतिसमानता दृष्टिभवतरति।
समयसारे उक्तमस्ति निश्चयनये संल्लग्नो मुनिः एव निर्वाणं गच्छन्ति'णिच्छयणसल्लीणा मुणिणो पावंति णिव्वाणं।'
__-समयसार गाथा- २९० पूर्वार्द्ध इयमेव भावं शब्दपरिवर्तनेन सहतत्वसारे उक्तम्'जं अल्लीणा जीवा तरंति संसारसायरं विसमं।'
'तत्त्वसार, गाथा ७३ का पूर्वार्द्ध अर्थात् यस्मिन् निश्चयनये तल्लीन जीवाः विषमं संसारसागरं वारं यान्ति।
उक्तोद्धरणेः सुस्पष्टं भवति यत् देवसेनाचार्यः तत्वसारे कुन्दकुन्दाचार्य कृतात् समयसारात् स्वयं मोक्षपाहुड इत्यस्मात् सारमादाय अस्य रचनां कृतवान् अस्ति । आचार्यः गृद्धपिच्छस्तथा देवसेनः -