________________
अनेकान्त 671, जनवरी-मार्च 2014
83 मार्गणस्थानं, न गुणस्थानं, न जीवस्थानं, न लब्धिस्थानं, न बंधस्थानं, न च किमपि उदय स्थानमस्ति। येन शब्द-स्पर्श-गन्ध-रस-रुपादयश्च न सन्ति। स हि शुद्धं चेतन-स्वभावरुपं निरंजने (आत्मनि) उक्तवान् अस्ति।
समयसारस्य तथा तत्वसारस्य उक्तगाथानां भावः एक एवस्ति तथात्र देवसेनोपरि कुन्दकुन्दस्य स्पष्टः प्रभावो वर्तते। समयसारे जीवस्य कर्मणश्च सम्बन्धस्य विवेचनं कुर्वन् उक्तवान् अस्ति - .
'एदेहि य सम्बन्धो जहेव खीरोदयं मुणेदव्वो। ण य हुंति तस्स ताणि दु उवओगगुणाधिगो जम्हा।।'
-समयसार गाथा, ६२ अर्थात् एतैः वर्णादिकभार्वेः सह जीवस्स सम्बन्धः दुग्धं जलवत् एक क्षेत्रावगाही भवति, किन्तु ते जीवस्य न भवन्ति यतोहि जीवे उपयोग-गुणोभवति।
इयमेव भावं अभिव्यक्ति कुर्वन् देवसेनेन उक्तम् - सम्बन्धो ए देखिं णायत्वो खीरणीरणाएणा। एकहो मिलियाणं णिय-णिय सद्भाव जुताणम्।।
अर्थात् स्व-स्व सद्भावेन युक्तः परन्तु एकत्वं प्राप्तस्य जीवस्य कर्मणश्च सम्बन्धः दुग्धं जलवद्धोध्यम्। समयसारस्य तत्वसारस्य चोक्तयोः द्वयो ईथयोः जीवस्य तथा कर्मणः सम्बन्धं दुग्धं जलदुक्तमस्ति। गाथाद्वयस्य अभिप्रेतमपि समानमस्ति। समयसारे जीवस्य उपयोगगुणं अधिकमुदीर्य वर्णादिभावेभ्य पृथग प्रदर्शितमस्ति, तत्वसारे तदेवभावः जीव-कर्मणश्च सम्मिलितत्वेऽपिद्वावपि स्व-स्व स्वभावयुक्तौ इत्युक्तवा प्रदर्शितोऽस्ति।
समयसारे उक्तमस्ति यद यस्य हृदि परमाणमात्रमपि रागो विद्यते.सः सम्पूर्णत्तमस्य ज्ञानी सत्वेऽपि स्व-आत्मानं न जानाति
'परमाणुमित्तियं पि हु य रागादीणं तु विज्जदे जस्स। णवि सो जाणदि अप्पाणयं तु सव्वागमध रोवि।।'
समयसार, गाथा. २११ इयमेव विषयं शब्दान्तरेण सह देवसेनः तत्वसारे एवमुक्तवान् यत्यावद्धि योगी स्व-मनसि परमाणु मात्रमपि रागं स्थापयति, तावद्धि परमार्थज्ञाता भूत्वाऽपि सः श्रमणकर्मभिः मुक्तो न भवति। तत्वसारस्य गाथा एवमस्ति -
‘परमाणुमित्तरायं जाम ण छंडेइ जोइ समणम्मि। सो कम्मेण ण मुच्चइ परमट्ठवियाणओ समणो।।'
- तत्त्वसार, गाथा-५३ केषां चिदेवं भूतास्ति धारणा वर्तमानसमये ध्यानं भवितुं नार्हति, तमाह कुन्दकुन्दाचार्यः
‘पंचसु महत्वदेसु य पंचसु समिदीसु तीसु गुत्तीसु।