________________
-
-
४४ ] अनेकान्त
[ वर्ष १४ टोका-वृषभः प्रथम-तीर्थकरदेक वो युष्मान् पातु रक्षतु । किंविशिष्टो वृषभः श्रीधर्म:-संसारसमुद्र निमजन्तं जन्तुमुद्धस्य इन्द्र-नरेन्द्र-मुनीन्द्र-वन्दिते (पदे) धरतीति धर्मः । श्रिया अभ्युदय-निःश्रेयसलक्षणया उपलक्षितो धर्मो यस्य स श्रीधर्मः । किविशिष्टो वृषभः अभिनन्दनः-अभि समन्तात् नन्दयति निजरूपाद्यतिशयेन प्रजानामानन्दमुत्पादयती. त्यभिनन्दनः । अथवा न विद्यतें भीयं यत्र, तानि अभीनि । 'स्वरो इस्वो नपुसके । अभीनि भयरहितानि नन्दनानि अशोक-सप्तपर्ण-चम्पकादीनां समवसरणे यस्य, सोऽभिनन्दनः । पुनः किंवि०१ अरः-'ऋ गतौ' अरति गच्छति केवलज्ञानेन लोकालोकं जानास्परः। 'सवें गत्यार्थाः धातवो ज्ञानार्था' इति वचनात् । अथवा 'ऋ सू गतौ' इति धातुरदादौ क्सते, तत्र इयति गच्छति त्रैलोक्यशिखरमारोहतीत्यरः, एकेन समयेन मुक्ति प्राप्नोतीत्यरः । अथवा अर्यते मोक्षार्थिभिर्गम्यतेज्ञानिमिर्ज्ञायते इत्यरः । अथवा संसारमोक्षणे भरः शीघ्रगो वा । अथवा धर्मरथप्रवृत्तिहेतुत्वादरश्चक्रांगभूतः । अथवा अं शिवं राति ददातीति भन्यानां अरः । अथवा न विद्यते : कामो भयं वा यस्य (स) परः । पुनः किंवि०१ पद्मप्रभःपदोश्चरायोःमा लक्ष्मीः यस्य स पद्मः । प्रकृप्टा भा दीप्तिर्यस्य स प्रभः । पदमश्चासौ प्रभश्च पद्मप्रभः । अथवा पदमैनिधिविशेषैः प्रभाति प्रकर्षण शोभत इति पत्नप्रभः । अथवा पन्नः योजनैकप्रमाणसपादद्विशतहेममयकमलैः प्रभाति शोभते यः स पनप्रभः । उक्त च-हस्तिबिन्दौ मतं पद्म पद्मोऽपि जलजे मतः । संख्याऽहि-निधि-वृन्देषु पद्मध्वनिरयं स्मृतः ॥ पुनः किंवि०१शीतलः-शीतं लाति सहते छमस्थावस्थायां शीतलः । तदुपलक्षणं उष्णस्य वर्षाणां च त्रिकालयोगवान्नित्यर्थः । अथवा शीतलः-शान्तिमूर्तिः । पुनः किंवि० शान्तिः-शाम्यति सर्वकर्मक्षयं करोतीति शान्तिः । 'तिक्वतो संज्ञायामाशिषि' संज्ञायां पुल्लिगे तिप्रत्ययः । पुनः किंवि० संभवः-सं समीचीनो भवो यस्य स संभवः । वा शंभव इति पाठे शं सुखं भवति यस्मादितिः शंभवः । पुनः किंवि.? वासुपूज्यः-वासुः शक्रस्तस्य पूज्यः वासुपूज्यः। अथवा वेन वरुणेन पवनेन वा इन्द्रादीनां वृन्देन वा गन्धेन वा, या समन्तात् सुप्छु अतिशयेन पूज्यः वासुपूज्यः । अथवा वा इति शब्दः स्त्रीलिंगेषु वर्तमानः मत्रवाची वर्तते, अमृतात्मकत्वात् । तेनायमर्थः-वया ही श्रीवासुपूज्याय नमः' इति मंत्रण सुष्टु अतिशयेन पूज्यः वासुपूज्यः । पुनः किंवि०१ अजित:- केनापि काम-क्रोधादिना शत्रुणा जितः अजितः । अथवा अः सूर्यस्त निजप्रभामण्डलतेजसा जयतीत्यजितः । पुनः किंवि०१ चन्द्रप्रभः-चन्द्रा आल्हादकारिणी प्रभा यस्य स चन्द्रप्रभः । पुनः किंवि०१ सुवतः-सुष्टु शोभनानि व्रतानि अहिंसादीनि यस्य स सुव्रतः । पुनः किंवि० श्रेयान्-अतिशयेन प्रशस्यः श्रेयान् । पुनः किंवि.? कुन्थुः–'कुन्थु हिंसा संक्लेशनयोः' कुन्यति समीचीनं तपःक्लेशं करोति कुन्थुः । पुनः किंवि०? अनन्तः-न विद्यते अन्तो यस्य सोऽनन्तः । पुनः किंवि०१ वीरः-शूरः। अथवा विशिष्टां ई लक्ष्मी मोक्षलक्ष्मी राति ददाति निजभकानां वीरः । पुनः किवि. विमलः-विगतो विनष्टो मलः कर्ममलकलंको यस्य स विमलः । अथवा विशिष्टा मा लक्ष्मीर्येषां ते विमा इन्द्रादयो देवास्तान् लाति निजपादाक्रान्तान् करोतीति विमलः । अथवा विगता दूरीकृता मा लक्ष्मीयस्ते विमाः । विमाः निर्ग्रन्थाः मुनयस्तान् लाति स्वीकरोतीति विमलः । अथवा विगतं मलमुच्चारः प्रस्रावश्च यस्य स विमलः । अथवा विशेषेण मं मलं लुनातीति विमलः । पुनः किंवि०१ श्रीपुप्पदन्त:-पुष्पवत् कुन्दकुसुमवत् उज्ज्वला दन्ताः यस्य स पुष्पदन्त । श्रियोपलक्षितश्चासौ पुष्पदन्तश्च श्रीपुष्पदन्तः । पुनः किंवि० ? नमिः-नम्यते इन्द्र-चन्द्रमुनीन्द्रादिभिर्नमिः । पुनः किंवि० श्रीनेमिः-नयति स्वधर्म नेमिः । श्रियोपलक्षितो नेमिः श्रीनेमिः । पुनः किंवि.सुमति:सुष्टु शोभना लोकालोकप्रकाशिका मतिर्यस्य स सुमतिः । पुनः किंवि० १ सुपावः-सुष्टु शोभने पावें वामदक्षिणप्रर्दशौ यस्य स सुपार्श्वः । पुनः किंवि०१ जिनराट-जिनानां गणधरदेवादीनां राट् स्वामी जिनराट् । पुनः किंवि० १ पार्श्वःनिजभक्कस्य पाश्व अश्यरूपेण तिष्ठतीति पावः । यत्र कुन प्रदेशे स्मृतः सन् स्वामी समीपे वयैव वर्तते पार्श्व : । पुनः किंवि०१मलि:-'मल-मल्ल धारणे' मल्यते निजशिरस्सु देवादिभिर्मलिः । अथवा मलते धारयति भन्यजीवान मोक्षपदे स्थापयति इति मलिः। ईग्विधो वृषभो देवः कः युष्मान् पातु रक्षतु । अथवा अजितः-द्वितीयतीर्थकरदेवो वो युप्मान् पातु । कथंभूतोऽजितः १ वृषभः-वृषेण अहिसानक्षयोपलक्षितेन धर्मेण भाति शोभते इति वृषभः। पुनः किंविशिष्टोऽजितः । संभवः । पूर्ववत् । एवं शेषाणां द्वाविंशतितमानां तीर्थकराणामपि स्तुतिाया।