________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
સિદ્ધાર્થ થશવંત વાકણકર
आख्यानकी तौ जगुरुगओजे जतावनो जेजगुरु गुरुश्चेत् ॥ १॥ जतौ जगौ गौ विषमे समे तु तौ ज्गौ ग एषा विपरीतपूर्वा ॥२॥ सयुगात् सलघू विषमे गुरुयुजि नभौ भरको हरिणप्लुता ॥१॥
अयुजि ननरलागुरुः समे तदपरवक्त्रमिदं नजो जरौ ॥ २ ॥ . अयुजि नयुगरेफतो यकारो युजि च नजो जरगाश्च पुष्पिताया ॥ ३॥
विषमे ससजा गुरू समे चेत् सभरा यश्च वसन्तमालिका सा ॥४॥
भत्रयमो जगतं गुरुयुग्म युजि च नजो ज्ययुतौ द्रुतमध्या ॥५॥ सर्वमर्द्धसमं विषमं च वृत्तमुपजातिः । अनेकजातीयसकललक्षणाढ्यैः पादः प्र(पृथग् यातु चतुभिरेव । द्वाभ्यां त्रिभिर्वा चरणैर्भवन्ति या निरूपणीया उपजातयस्तु ताः ॥ इति वर्णवृत्तानि ॥
षडविषमेऽष्टी समे कलास्ताच समे म्यु! निरन्तराः ।
न समाऽत्र पराश्रिताः कला वैतालीयेऽन्ते रलौ गुरुः ॥ पर्यन्तग्यौ तथैव शेषमौपच्छन्दसिक सुधीभिरुतम् ॥ इति वैतालीयजातिः ॥
सप्त च गणा: सगुरवः षष्ठो जो वानलौ न विषमे जः । षष्ठो लश्च पराढ़े दलद्वया सेयमुदिताऽऽयां ॥ १ ॥ च गणत्रयेषु पादो दलयोराधेषु दृश्यते यस्याः ।।
आर्या सा पथ्याख्या प्रकीर्तिता पझगेन्द्रेण ॥ २॥ आर्यैव दलद्वयव्यत्यये उद्गीतिः । पूर्वदलसमपरदला गीतिः । उत्तरदलसमपूर्वदला उपगीतिः ॥ इत्यादि मात्रावृत्तप्रकरणम् ।
॥ इति छन्दःप्रकरणम् ॥ अलसानां सुबुद्धीनां स्वल्पेनैव बुभुत्सताम् । विकासितोऽयं सोमेन सुबोधकुमुदाकरः ॥
ये स्वल्पबोधात् परितोषलिप्सवः शास्त्रान्तराभ्यासकृतादराश्च ये। शास्त्रप्रवेशाय च रन्ध्रकाक्षिणो बालास्त्रयस्तेऽत्र किलाधिकारिणः ॥ २॥ अबद्धं बद्धं वा यदिह मनसो विभ्रमवशादसारं सारं वा सरसमरसं वाऽपि लिखितम् । मयाऽप्यल्पज्ञेन प्रथमकविलेखादुपहृतं
तदेतत् क्षन्तव्यं निपुणमतिभिः शोध्यमखिलम् ॥३॥ शके नयनवारणक्षितिधरक्षमा( श. १७७२)सम्मिते सहस्यबहुले दले शशभृतश्शुभे वासरे। करीन्द्रमुखसत्तियौ समलिखच्छिहरे पुरे
सुबोधकुमुदाकरं स किल सोमनाथः सुधीः ॥ ४ ॥ ॥ इति व्याससोमनाथकृतः सुबोधकुमुदाकरः पर्याप्तः ।।
॥ श्रीरामचन्द्रार्पणमस्तु॥
For Private and Personal Use Only