________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
સિદ્ધાર્થ યશવંત વાકણકર
लो लघुर्गो गुरुः ।
देवता-वाचकाः सर्वे ये च भद्रादिवाचकाः ॥
ते सर्वे नैव निन्याः स्युलिपितो गणतोऽपि वा ॥ अयमाद्यगणे विचारः ।
दुव्यादिमात्रागणाः पञ्च दतचाश्च ययौ पुनः ।
श्रव्यो विरामस्तु यतिः प्रदान्तः प्रायशो न सा ॥ तत्रैकाक्षरमारभ्य षड्विंशत्यक्षरपादावधिच्छन्दसाम् उक्तात्युक्तामध्या-प्रतिष्ठा-सुप्रतिष्ठागायत्र्युष्णिगनुष्टुब् बृहतीपङ्क्तित्रिष्टुष-जगत्यतिजगती-शक्वर्यतिशक्वर्यष्टयत्यष्टीअत्यतिधृतिकृति-प्रकृत्याकृतिविकृतिसङ्कृत्यतिकृत्युत्कृतयः संज्ञाः प्रस्तारैस्तद्भेदबोधः । स यथा
पादे सर्वगुरावाद्या लघु न्यस्य गुरोरधः । यथोपरि तथा शेष भूयः कुर्यादमुं विधिम् ।। ऊने दद्याद् गुरुनेव यावत् सर्वलघुर्भवेत् ।।
प्रस्तारोऽयं समाख्यातश्छन्दोवि(वी)चितिवेदिभिः ॥ तत्र कतिचिद्भेदाः प्रदर्यन्ते
उक्ता-ग् श्रीः। अत्युक्ता---गौ स्त्री । मध्या-मो नारी । प्रतिष्ठा-मोगः कन्या । सुप्रतिष्ठा-गौगिति पङ्क्तिः । गायत्र्या-त्यौ चेत् तनुमध्या। उष्णिग्-म्सौगः स्यान्मदलेखा। अनुष्टुप् -- पञ्चम लघु सर्वत्र सप्तमं द्विचतुर्थयोः । षष्ठं गुरु विजानी[या]बुध छन्दस्यनुष्टुभि ॥१॥ मो मो गो गो-विद्यन्माला ॥२॥ माणवक भात्तलगाः ॥ ३ ॥
बृहती--भद्रिका भवति रो नरौ । स्यान्मणिबन्ध चेमसाः । पढिक्त:-१० भ्यौ सगयुक्ता चम्पकमाला । त्रिष्टुप-११ स्यादिन्द्रवज्रा यदि तौ जगौ गः ॥ १॥
उपेन्द्रवज्रा जतजास्ततो गौ ॥ २॥ बरलगा रसैरिन्दिरा यतौ ॥ ३ ॥ दोधकवृत्तमिमं भभभा गौ ॥ ४ ॥ शालिन्यब्धिच्छिन मतो तो गयुग्मम् ॥ ५॥ रो नराविह रथोद्धता लगौ ॥ ६ ॥ स्वागतेति रनभाद् गुरुयुग्मम् ॥ ७॥ मौक्तिकमाला यदि भतनाद् गौ ॥ ८॥
कमलदलाक्षी नयनलगाः ॥९॥ जगती-१२ जतौ तु वंशस्थमुदीरितं जरौ ॥१॥
स्यादिन्द्रवंशा ततजैरसंयुतैः ॥ २॥ चतुर्जगणं वद मौक्तिकदाम ॥३॥ इह तोटकमम्बुधिरसैः प्रथितम् ॥४॥ भुजङ्गप्रयातं भवेद्यैश्चतुर्भिः ॥ ५ ॥ रैश्चतुर्भिर्युता स्रग्विणी सम्मता ॥ ६॥
For Private and Personal Use Only