________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
:: श्री रेन प्राश पावं पावं मुनिजनपथं कृत्यकार्येषु लीनः
स्तावं स्तावं गुणिगुणगणं शुद्धसम्यक्त्वधारी । नावं नावं जिनवरवरं नीतपुण्यप्रकर्पः
स्वर्गस्थोऽसौ विलसति सुखं मद्गुरुर्बुद्धिचन्द्रः ॥ ३॥
दायं दायं स्वऽभयमतुलं प्राणिपु प्रीतिपुझं
धायं धायं सुमतिमहिलां क्लुप्तकल्याणपोतः । भायं भायं प्रवचनवचो वीरदेवाभिमानः
__स्वर्गस्थोऽसौ विलसति सुखं मद्गुरुर्बुद्धिचन्द्रः ॥४॥
मारं मारं रतिपतिभटं त्यक्तमोहादिदोषो
धारं धार यतिपतिपदं कृत्तकर्मारिवर्गः । वारं वारं कुपथगमनं जैनराद्धान्तरक्तः
स्वर्गस्थोऽसौ विलसति सुखं मद्गुरुर्बुद्धिचन्द्रः ॥५॥
द्वेपं द्वेपं कपटपटुकं निह्नवं न्यायमुक्तं
पेपं पेपं कुशलविकलं कर्मवारं प्रभूतम् । पोपं पोपं विमलकसलं चित्तरूपं महात्मा
स्वर्गस्थोऽसौ विलसति सुखं मद्गुरुर्बुद्धिचन्द्रः ॥६॥ शोषं शोपं कलुपजलधिं ध्वस्तपापादिपङ्कः
प्लोपं प्लोपं सकलमशुभं शुद्धधीानमनः । तोपं तोपं भविजनमनो जैनतत्त्वादिभिर्यः
स्वर्गस्थोऽसौ विलसति सुखं मद्गुरुर्वृद्धिचन्द्रः ॥७॥
सिद्धान्तोदधिमन्थनोत्थविमलज्ञानादिरत्नब्रज
शिष्येभ्यो वितरन् समाधिसहितः संप्राप नाकं शुभम् । सोऽयं मद्गुरुरन्यहं विजयतां श्रीवृद्धिचन्द्रोमुनि
स्तस्यैव स्तुतिरूपमष्टकमिदं भव्याः पठन्तु प्रगे ॥८॥
For Private And Personal Use Only