________________
प्रशस्ति :
प्रशस्ति-संग्रह
महेन्द्रपुरभेदने ।
मित्रागच्छ वयं यामो अंजना मे स्थिता तत्र चित्तचे|रणतस्करी ॥१७॥ स्वमित्रेण समं वायुरचलत् श्वासुरं पुरम् । स्वात्मीयं गजमारुह्य वञ्चितः स्वजनैस्तदा ॥ १८॥ संप्राप्तो नगरीवाह्य हर्षसंभृतमानसः । प्रियाङ्कमिव संप्राप्तो दृष्ट्वा पुरवरं तदा ॥१६॥ प्रभञ्जनकुमारस्यागमनं श्रुत्वा महीपतिः । पुष्टङ्गारमकरोत् वैजयन्त्यादितोरणैः ॥२०॥
कलाधरः
जैनेन्द्रशासन सुधारसपान पुष्टो देवेन्द्रकीर्त्तियतिनायक ने ष्ठिकात्मा । . तच्छिष्यसंयमधरेण चरित्रमेतत् सृष्टं समीरणसुतस्य महर्द्धिकस्य ॥ ११ ॥ विशदशीलस्वर्धुनीशिलातलैकराजहंससेोत्सवाय क्रीडनप्रियः स्वमतसिन्धुवर्द्धने प्रकृष्टया मिनीतयनतेजसाद्भुतप्रभामितः । सुरेन्द्रकीर्त्तिविद्ययादिनन्द्यनंगमर्दनैकपण्डितः तदीयदेशानामवाप्य शुद्धबोधमाश्रितो जितेन्द्रियस्य भक्तितः ॥ ६२ ॥ गोला गारवंशे नभसि दिन मणिर्वीरसिंहेो विपश्चित् भार्या बीधा प्रतीतातनुरुहविदितो ब्रह्मदीक्षाश्रिताऽभूद् । तेनाच्चैरेष ग्रन्थः कृत इति सुतरां शैलराजस्य सूरे: श्रीविद्यानन्दिदेशात् सुकृतविधिवशात्सर्वसिद्धिप्रसिद्ध ॥१३॥ इदं श्रीशैलराजस्य चरितं दुरितापहम् ।
रवितं भृगुकच्छे च श्रीनेमिजिनमन्दिरे ||१४|| धर्मार्थी लभते वृषं धनयुतो वृद्धिश्च निःस्वो धनम् पुत्रार्थी स्वकुलेोचितं च तनयं कामांश्च कामी लभेत् (?) मोक्षार्थी वरमोत्तमाशु लभते प्रोक्तेन सान्द्रेण किम् ह्येतत् शैलमुनीन्द्रराजचरितं सर्वार्थसिद्धिप्रदम् ॥१५॥ पठिता पाठकश्चैव वक्ता श्रोता च भावुकः । चिरं नन्द्यादयं ग्रन्थस्तेन सार्द्ध युगावधिः ॥६६॥ प्रमाणमस्य ग्रन्थस्य द्विसहस्रमितं बुधैः । श्लोकानामिह मन्तव्यं हनुमच्चरिते शुभे ॥६७॥
इतिश्रीहनुमच्चरित्रे ब्रह्मा जितविरचिते एकादशः सर्गः