SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ भास्कर परमाप्नोति भावानां तां प्रणौमि जिनास्यजाम् ॥१०॥ त्रिहीननवकोटीनां मुनीनां पादपङ्कजान् । स्मरामि स्मरजेतृणां त्रातॄणां भववारिधेः॥१९॥ नमामि वृषसेनादिगौतमान्तान् गणेश्वरान् । साीश्चतुर्दशशतान् त्र्यधिकान् श्रीसुखप्रदान् ॥१२॥ गौतमः श्रीसुधर्मा च जंघाख्यमुनि केवलाः, (१)। त्रयः केवलिनः पूज्या नो नित्यं सन्तु सिद्धये ॥१३॥ श्रीविष्णुनन्दिमित्राख्यो पराजितमहातपाः। गोवर्द्धना भद्रबाहुः पञ्चैतान् श्रुतसागरान् ॥१४॥ . द्वादशांगश्रुताभ्यासनीरेण क्षालितं न कान् । प्रणौम्यहं त्रिशुद्ध्यस्तान् पञ्चपाण्डित्यहेतवे ॥१५॥ सृष्टिः समयसारस्य कर्ता सूरिपदेश्वरः। श्रीमच्छीकुन्दकुन्दाख्यस्तनोतु मतिमेदुराम् ॥१६॥ पुराणपद्धतिर्यस्य हृदये प्रस्फुटं गता। प्रणौमि जिनसेनस्य चरणौ शरणं सताम् ॥१७॥ जीयात्समन्तभद्रोऽसौ भव्यकैरवचन्द्रमाः। दुर्वादिवादकण्डूनां शमनैकमहौषधिः ॥१८॥ अकलङ्कगुरु यादकलंकपदेश्वरः। बौद्धानां बुद्धिवैधव्यदीक्षागुरुरुदाहृतः ॥१६॥ शुद्धसिद्धान्तपायोधिपारीणः परमेश्वरः। नेमिचन्द्रश्चिदानन्दपदवीमुख्यतां गतः ॥२०॥ प्रभा गुणवती यस्य प्रभाचन्द्रस्य सूरिणः । सोऽस्तु मे बुद्धिसिद्धयर्थ कारुण्यादिरसालयः ॥२१॥ पञ्चाचाररता येऽन्ये सूरयः संस्तुताः सुरैः। ते मे दिशन्तु सन्मेधां पद्मनन्दीश्वरादयः ॥२२॥ मङ्गलादिप्रसिद्धयर्थ मया भावेन संस्तुताः। श्रीहनुमत्कुमारस्य कथायाः सिद्धये पुनः ॥२३॥ मध्य-माग (पृष्ठ ३१, श्लोक १६) इत्युक्तं केनचित्तावत्कुमाराय जितद्विषे। अंजनाप्रभवं वृत्तं सर्व कालविषोपम् ॥१६॥
SR No.529551
Book TitleJain Siddhant Bhaskar
Original Sutra AuthorN/A
AuthorJain Siddhant Bhavan
PublisherJain Siddhant Bhavan
Publication Year
Total Pages417
LanguageHindi
ClassificationMagazine, India_Jain Siddhant Bhaskar, & India
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy