________________
किरण ४ ]
प्रशस्ति-संग्रह
आचार्यवर्याश्चरितानि शिष्यानाचारयन्तः स्वयमाचरन्तः।। षट्त्रिंशतापि स्वगुणैर्युतास्तैः सदापरात्माष्टगुणाभिलाषाः ॥३॥ तेऽध्यापकाः स्युर्ददते नितान्तं ये ब्रह्मवर्यव्रतपालिनेोऽपि । दयाञ्च चित्तेषु सरस्वतीञ्च मुखेषु देहेषु तपःश्रियश्च ॥४॥ ते साधवो मे ददतु स्ववृत्तिं दयालवोऽपि वतदिव्यशस्ौः। अनंगराजं समरे निहत्य कुर्वन्त्यनंगोरुपदं स्वकीयम् ॥५॥ जिनागमक्षीरनिधिर्गभीरो विलोडितश्चेद्विबुधैविधानात् । ददाति रत्नत्रयमुज्ज्वलांगं तदा स तेभ्योऽप्यमृतं दुरापम् ॥६॥ श्रीगौतमाद्या जिनयोगिनो ये वीरांगदान्ता महितात्मवृत्ताः । . तदीयनामाक्षररत्नमाला मदीयवाण्या मणिकण्ठिका स्यात्॥७॥ ' अथाशरीरानुपमाम्बुजाक्षीमप्याशु वश्यां यदलं विधातुं। शतं सुवर्णाभिनवार्थरत्नस्तद्भव्यकण्ठाभरणं तनिष्ये ॥८॥
मध्यभाग (पूर्व पृष्ठ १४ पंक्ति ४)
श्रित्वादिम (?) तापमितेषु बुद्ध्वानाश्रित्य मूलाच्च भजत्स्वमुक्त्वा । छायाद्रुवत्तस्य न रुट्परागस्तथापि ते दुःखसुखास्पदानि ॥१॥ तस्मिन्निदानीमिव सार्वभौमे देशे वसत्यप्यतिविप्रकृष्टे। " चरन्ति ये ते सुखिनस्तदीयामाज्ञामनुल्लङ्घय परे सदुःखाः ॥२॥ जना गृहग्रामपुरीजनान्तषट्खण्डमात्रप्रभुशासनं चेत् । उल्लंघयन्तोऽप्युरुदुःखभाजस्तकिं पुनस्सर्वजगत्प्रभास्तत ॥३॥ . सतो हितं शास्ति स एव देवः सदाण्य (?) ते शासनतत्फलेच्छाम् । कलस्वनं कर्णसुधारसौघं वमत्तयोर्वाद्यमपेक्षते किम् ॥४॥
अन्तिम भाग--
.. . .. . ‘अास्सहार्थाभिदयेति सर्वेऽप्याचार्य्यमुख्या गुरवस्त्रयोऽपि । असारसंसारविनाशहेतोराराधनीया अनिशं मया स्युः॥१॥ सूक्त्यैव तेषां भवभीरवो ये गृहाश्रमस्थाश्चरितात्मधर्माः । त एव शेषाश्रमिणां सहाया धन्याः स्युराशाधरसूरिवर्याः ॥२॥
ओराध्यमानामलदर्शनास्ते धर्मेऽनुरक्ताः शमिनां सदापि । .... एकं यथाशक्ति भजन्त्यशल्यमेकादशाणुवतिकास्पदेषु ॥३॥